SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३२ अनगारधर्मामृतेinwww ब्रह्मणे । लिङ्गविकारकरणविरमणब्रह्मचर्यव्रतायेत्यर्थः । एवं सर्वत्र । तथा मा भज मा सेवस्व त्वम् । किं तत् ? वृष्यं शुक्रवृद्धिकरं क्षीरमाषान्नादि । न केवलं, स्त्रीशयनादिकं च । कामिन्यङ्गस्पर्शवत् तत्संसक्तशय्यासना. दिस्पर्शस्यापि कामिनां प्रीत्युत्पत्तिनिमित्तत्वात्। तथा मा दा मा देहि त्वम् । मा व्यापारयेत्यर्थः । काम् ? दृशं चाक्षुषी चैतसीं च दृष्टिम् । क ? वराङ्गे भगे । तथा स्त्री नारी मा सत्कुरु मा सन्मानय त्वम् । मा च संस्कुरु वस्त्रमाल्यादिभिर्मा भूषय स्वं स्त्रियम् । तथा मा स्मर म त्वम् । किं तत् ? रतं मैथुनम् । किविशिष्टम् ? वृत्तं पूर्वानुभूतम् । तथा ताभिः सह मया क्रीडितमिति मा म चिन्तयेत्यर्थः । तथा मा इच्छ माभिलष त्वम् । किं तत् ? रतम् । किं विशिष्टम् ? वय॑द् भविष्यत् । दिव्यस्त्रीभिः सहेस्थमित्थं सुरतं करिष्याम्यहमिति मा काङ्क्षीरित्यर्थः । तथा मा जुषस्व मा सेवस्व त्वम् । कान् ? इष्टविषयान् इच्छया विषयीकृतान् रूपादीन् । विषयवर्गस्य मनोविकारकारित्वं मुनिभिरपि दुर्निवारमिति परं तत्परिहारे विनेयं सजयति यद्यद्धं घुणवद्वज्रमीष्टे न विषयत्रजः । मुनीनामपि दुष्प्रापं तन्मनस्तत्तमुत्सृज ॥ ६२॥ यन्मनो व्यर्द्ध वेधितुं विकारयितुं विषयव्रजो रूपरसादीन्द्रियार्थग्रामो न ईष्टे न शक्नोति । क इव कम् ? घुणवद्वज्रं कुलिशं काष्ठभक्षकीटको यथा । तन्मनश्चित्तं दुष्प्रापं दुर्लभं वर्तते । केषाम् ? मुनीनामपि संयमिनाम् । किं पुनरितरजनानामित्यर्थः । मुनीनामित्यत्र शैषिकी षष्ठी। तथा च शिष्टप्रयोगः । “स्त्रीणां वश्यकरोपायो देवानामपि दुर्लभः।" इति । उपसंहारमाह-यत एवं तत्तस्मात्तं विषयत्रजमुत्सृज परिहर त्वम् ॥ स्त्रीवैराग्यपञ्चकभावनया प्राप्तस्त्रीनैराग्यो ब्रह्मचर्य वर्धयेति शिक्षयति नित्यं कामाङ्गनासङ्गन्दोषाशौचानि भावयन् । कृतार्यसङ्गतिः स्त्रीषु विरक्तो ब्रह्म हय ।। ६३॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy