________________
चतुर्थोऽध्यायः।
ते ब्रह्मव्रतपालिनः परं प्रमोदं परमानन्दं यान्ति प्रतिलभन्ते । ये किम् ? ये पान्ति रक्षन्ति निरतिचारं कुर्वन्ति । किं तत् ? तब्रह्मचर्यम् । किंविशिष्टम् ? व्रतसार्वभौमम् । सर्वभूमेरीश्वरः सार्वभौमश्चक्रवर्ती । व्रतानां सार्वभौम इव मुकुटबद्धानामिव तेषां तदायत्तवृत्तित्वात् । यत्किम् ? या चर्या । कोर्थः ? प्रवृत्तिरप्रतिहता परिणतिः । कस्य ? परद्रव्यमुचः स्वपरशरीरं त्यक्तवतः । क ? ब्रह्मणि । कोर्थः ? स्वात्मनि निजचिद्रूपे । किं विशिष्ट ? शुद्धबुद्धे दृष्टश्रुतानुभूतभोगाकाङ्क्षारूपनिदानबन्धादिसमस्तविभावरागादिमलनिर्मुक्तत्वाच्छुद्धे, युगपत्सकलपदार्थसाक्षात्कारसमर्थत्वाबुद्धे च । ब्रह्मणि चर्या ब्रह्मचर्यमिति हि नैरुक्ताः । 'लिङ्गमशिष्यं लोका. श्रयत्वाल्लिङ्गस्य ' इति नपुंसकत्वम् । तथा चोक्तम्
निरस्तान्याङ्गरागस्य स्वदेहेपि विरागिणः ।
जीवे ब्रह्मणि या चर्या ब्रह्मचर्य तदीयते ॥ दशप्रकारब्रह्मचर्यसिद्ध्यर्थं दशधाऽब्रह्मप्रतिषेधाय प्रयुक्तेमा रूपादिरसं पिपास सुदृशां मा वस्तिमोक्षं कृथा, वृष्यं स्त्रीशयनादिकं च भज मा मा दा वराङ्गे दृशम् । मा स्त्री सत्कुरु मा च संस्कुरु रतं वृत्तं स्मरस्मार्य मा, वय॑न्मेच्छ जुषस्व मेष्टविषयान् द्विःपञ्चधा ब्रह्मणे ॥ ६१ ॥ __ हे आर्य, द्वौ वारौ पंच द्विःपञ्चधा दशधा दशप्रकाराय ब्रह्मणे मैथुन. विरतिव्रतायेदमिदं मा कार्पोरिति समुदायार्थः कथ्यते। अथ प्रत्येकं तदर्थः कथ्यते। भो मुमुक्षो,मा पिपास पातुमिच्छ त्वम्। कम् ? रूपादिरसम्।रस्यतेस्वाद्यते इति रसो रसनेन्द्रियग्राह्यार्थः। रूपमादिर्यस्य रसादेः स रूपादी रूपरसगन्धस्पर्शशब्दग्रामः । स एव रसस्तम् । कासाम् ? सुदृशां कामिनीनाम् । चक्षुषा कामिनीनां मुखादिसौन्दर्य, जिह्वया बिम्बोष्ठरसं, घ्राणेनोच्छ्वसितादि सुरभिगन्धं, स्वगिन्द्रियेण पीनस्तनादिस्पर्श, श्रोत्रेण च गीतादिशब्दं परिभोक्तुं माभिलषेत्यर्थः । एवमुत्तरत्रापि बोध्यम् । तथा मा कृथा मा कुरु त्वम् । कम् ? बस्तिमोक्षं लिङ्गविकारकरणम् । कसै ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org