________________
२३०
अनगारधर्मामृते
प्रादुःषन्ति यतः फलन्ति च गुणाः सर्वेप्यखर्वौजसो यत्प्रह्वीकुरुते चकास्ति च यतस्तद्ब्राह्ममुचैर्महः । त्यक्त्वा स्त्रीविषयस्पृहादि दशधाऽब्रह्मामलं पालय, स्त्रीवैराग्यनिमित्तपञ्चकपरस्तद्ब्रह्मचर्यं सदा ॥ ५९ ॥
भो शिवार्थिन्, तद्ब्रह्मचर्ये वक्ष्यमाणलक्षणं चतुर्थं व्रतं सदा यावज्जीवममलं निरतिचारं कृत्वा पालय रक्ष त्वम् | उदितोदितं कुर्वित्यर्थः । किंविशिष्टः सन् ? स्त्रीत्यादि । स्त्रीषु मानुषीतिरश्ची देवीषु तत्प्रतिमासु च वैराग्यं रिरंसानिग्रहः । तस्य निमित्तानि कारणानि कामदोषभावनादीनि वक्ष्यमाणानि । तेषां पञ्चकं परं प्रधानं ज्ञानापेक्षया मुख्यं यस्य स एवम् । किं कृत्वा ? त्यक्त्वा व्रतयित्वा । किं तत् ? अब्रह्म । बृंहन्त्य हिंसादीन्यस्मिन्निति ब्रह्म शुद्धस्वात्मानुभूतेः परिणतिः । ततोन्यद् अब्रह्म । मैथुनमिति यावत् । तत्र हिंसादयो दोषाः पुष्यन्ति । मैथुनासेवनप्रवणो हि स्थास्नुचरिष्णून् प्राणिनो हिनस्ति मृषावादमाचष्टेऽदत्तमादत्ते सचेतनमितरं च परिग्रहं गृह्णाति । कतिधा ? दशधा दशप्रकारम् । कथं कृत्वा ? स्त्रीविषयस्पृहादि । स्त्रीविषयाः स्त्रीगता रूपरसगन्धस्पर्शशब्दाः । तेषु स्पृहा अभिलापः । सा आदिर्यस्य वस्तिमोक्षादेस्तत् । देवगुरुसधर्म साक्षिकं ब्रह्मचर्यव्रतं स्वीकृत्येत्यर्थः । तत्किम् ? यतोयस्मात्प्रादुःषन्ति प्रादुर्भवन्ति फलन्ति च स्वप्रयोजन साधका भवन्ति । के ? सर्वे सकला गुणा व्रतशीलादयः संयमविकल्पाः । तथा यत्प्रह्वीकुरुते नमयति । कानू ? अखर्वौजसः । अखर्वमुन्नतमुदितोदितमोजस्तेज उत्साहो वा येषां तान् इन्द्राहमिन्द्रादीनपि किं पुनः प्रतीन्द्रचक्रवर्यांदी नित्यपिशब्दार्थः । तथा यतो यस्माद्धेतोश्चकास्ति आत्मानं दर्शयति । किंतत् ? तत्प्रसिद्धं महस्तेजः स्वपरप्रकाशकं रूपम् । किंविशिष्टम् ? ब्राह्मं ब्रह्मणो ज्ञानस्य शाब्दस्य केवलस्य चेदम् । किंविशिष्टम् ? उच्चैः प्रकर्षप्राप्तम् । श्रुतकेवलित्वं केवलित्वं चेत्यर्थः ।
ब्रह्मचर्यस्वरूपं निरूप्य तत्पालनपराणां परमानन्दप्रतिलम्भमभिधत्ते - या ब्रह्मणि स्वात्मनि शुद्धबुद्धे चर्या परद्रव्यमुचः प्रवृत्तिः । तद्ब्रह्मचर्य व्रतसार्वभौमं ये पान्ति ते यान्ति परं प्रमोदम् ६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org