________________
चतुर्थोऽध्यायः।
२२९ मणगुत्तो वचिगुत्तो इरियाकायसंजुदो । एसणासमिदिसंजुत्तो पढमं वद्मस्सिदो ॥ चतुर्थे यथाइत्थिकहा इत्थिसंसग्गी हस्सखेडपलोयणो। णियत्तो णियमंहिठिदो चउत्थं वदमस्सिदो ॥ अस्तेयव्रतढिमदूराधिरूढप्रौढमहिम्नां परमपदप्राप्तिमाशंसतिते संतोषरसायनव्यसनिनो जीवन्तु यैः शुद्धचि,-.. न्मात्रोन्मेषपराङ्मुखाऽखिलजगद्दौर्जन्यगर्जद्भुजम् । जित्वा लोभमनल्पकिल्बिषविषस्रोतः परस्खं शकुन्, मन्वानैः स्वमहत्त्वलुप्तखमदं दासीक्रियन्ते श्रियः ॥ ५८॥
संतोषो यावल्लब्धयोग्योपयोगेन सौहित्यम् । संतोषो रसायनमिव दीर्घायुरादिगुणहेतुत्वात् । तस्य व्यसनं सेवानिबन्धस्तद्वन्तः साधवस्ते जीवन्तु दयादमत्यागसमाधिलक्षणप्राणान् धारयन्तु । यैः किम् ? यैसी. क्रियन्ते अदास्यो दास्य कर्मको विधीयन्ते । काः ? श्रियः संपदः । कथं कृत्वा ? स्वमहत्त्वलुप्तखमदम् । स्वमहत्वेन निजमहिना लुप्तः छिन्नः खमद आकाशदर्पो यत्र परधननिरीहा आकाशादपि महान्त इति भावः । किं कुर्वाणैः ? मन्वानैर्मन्यमानैः । किं तत् ? परस्वं परधनम् । किंविशिष्टम् ? शकृत् पुरीषम् । पुनः किंविशिष्टम् ? अनल्पकिल्बिषविष. स्रोतः प्रचुरपातकगरलसरित्प्रवाहम् । किं कृत्वा ? जित्त्वाऽभिभूय । कम् ? लोभं गाय॑म् । किंविशिष्टम् ? शुद्धेत्यादि । शुद्धचिन्मात्रे सर्व. विवर्तीत्तीर्णाचलचैतन्ये उन्मेषः साक्षात्करणप्रणिधानम् । तत्र परामुखं विमुखमशुद्धचिद्विवर्तवर्ति अखिलजगत् सर्वबहिरात्मप्राणियणः । तत्र दौर्जन्यमपकारकत्वम् । तेन गजेन्संरम्भमरनिर्भरं निध्वनन् भुजो बाहुर्यस्य । जगत्रयजेतारमित्यर्थः । इत्यचौर्यमहाव्रतम् ।
अथ पञ्चचत्वारिंशता पद्यैर्ब्रह्मचर्यव्रतं ब्याचिकीर्षुस्तन्माहात्म्यव्यावर्णनेन प्ररोचनामुत्पाद्य तत्परिपालनाय मुमुक्षून् नित्यमुखमयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org