________________
२२८
अनगारधर्मामृते
तत्स्वाम्यनुज्ञातात् ग्रहणं चेति भावनाद्वयं संगृहीतं बोद्धव्यम् । या तु गोचरादिषु गृहस्वाम्यननुज्ञातगृहप्रवेशवर्जनलक्षणा भावना स तत्रैवान्तर्भवत्यननुज्ञातानभ्युपगमाविशेषात् । तथा परस्वे निरीहः स्यात् । किं कुर्वन् ? अस्यन क्षिपन् निराकुर्वन् । काम् ? सक्तिम् । क ? तत्र स्वाम्यनुज्ञया गृहीतेपि योग्ये परानुज्ञां संपाद्य गृहीतेप्यासक्तबुद्धिता इति । सैषा चतुर्थी तथा परस्वे निरीहः स्यात् । किं कुर्वन् ? गृह्णन् । किं तत् ? तद्योग्यं वस्तु । किंविशिष्टम् ? अर्थवत् सप्रयोजनम् । किविशिष्टमपि ? प्रत्तमपि तत्स्वामिना प्रदातुमारब्धमपि । एतत्परिमाणमिदं भवता दातव्यमिति प्रयोजनमात्रपरिग्रहो न पुनर्दीता यावद्ददाति तावद् हामीति बुद्धिरित्यर्थः । सैषा पञ्चमी । तथा चोक्तम्
उपादानं मतस्यैव मते चासक्तबुद्धिता। ग्राह्यस्यार्थकृतो लानमितरस्य तु वर्जनम् ॥ अप्रवेशोऽमतेऽगारे गृहिभिाँचरादिषु ।
तृतीये भावना योग्ययाज्ञा सूत्रानुसारतः॥ पुनः प्रतिक्रमणशास्त्रोक्तं भावनापञ्चकं सूत्रयितुमाह-भोज्येपीत्यादि । तथा परस्वे निरीहः स्यात् । किंविशिष्टः सन् ? अस्तगों निराकृतगृद्धिः । क ? भोज्ये भक्ते पाने च । एतेन भक्तसंतुष्टता पानसंतुष्टता चेति द्वे भावने संगृहीते । अपिशब्दाद्देहेप्यस्तगर्द्धः । देहेऽशुचित्वानित्यत्वादिभावनापर इत्यर्थः । सैषा तृतीया । तथा परस्वे निरीहः स्यात् । किंविशिष्टः सन् ? अपसङ्गः सङ्गादपेतः । सैषा परिग्रहनिवृत्तिलक्षणा चतुर्थी । तथा परस्वे निरीहः स्यात् । किंवि. शिष्टः सन् ? स्वाङ्गालोची आत्मानं देहं च भेदेनाध्यवस्यन् इदं शरीरादिकमात्मनो देहनमुपलेपः कर्मकृतं गुरुत्वं नोपकारकारकमिति देहनाख्या । सैषा पञ्चमी । एतदप्युक्तम्
देहणं भावणं चावि उग्गहं च परिग्गहे ।
संतुट्ठो भत्तपाणेषु तदियं वदमस्सिदो॥ एतेनैतदप्युक्तं भवति व्रतान्तरेपि शास्त्रान्तरोक्तान्यपि भावनान्तराणि चान्यानि । तत्राये यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org