SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। २२७ ष्टितो भूतादिः । सधर्माणः स्वयूथ्याः साधवः । शचीशश्च धात्रीशश्च गृहेशश्च देवता च सधर्माणश्च । तेषां संबन्धि यथास्वं तत्स्वामिकं यद्वस्तु धर्मकृते धर्मार्थमस्ति भवति तत्ततः शचीशादेरादाय गृहीत्वा यथागममागमानतिक्रमेण चरननुष्ठानं कुर्वन् शाश्वतीमविनाशिनीं श्रियं लक्ष्मीमेति गच्छति साधुः । किंविशिष्टः ? अचौर्यचुञ्चः स्तेयविरत्या प्रतीतो यतः ॥ शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्माविसंवादलक्षणभावनापञ्चकेन स्थैर्यार्थमचौर्यव्रतं भावयेदित्युपदिशति शून्यं पदं विमोचितमुतावसे क्षशुद्धिमनु यस्येत् । न विसंवदेत्सधर्मभिरुपरुन्ध्यान्न परमप्यचौर्यपरः॥५६॥ आवसेदधिवसेदचौर्यपरस्तृतीयव्रतनिष्ठः साधुः। किं तत् ? पदं स्थानम् । किंविशिष्टम् ? शून्यं निर्जनं गुहागेहादि । उत अथवा विमोचितं परचक्रादिनोद्वासितं पदमावसेत् । तथा यस्येत् प्रयतेत संयमी । कथम् । अनु लक्ष्यीकृत्य । काम् ? भैक्षशुद्धिम् । भिक्षाणां समूहो भिक्षाया आगतं वा भैक्षम् । तस्य शुद्धिः पिण्डशुयुक्तदोषपरिहारस्तां प्रति। तथा न विसंवदेदिदं तवेदं ममेति विसंवादं न कुर्यादार्यः । कथम् ? सह । कैः ? सधर्मभिः साधर्मिकैः । तथा नोपरन्ध्यादभ्यर्थनया न संकोचयेदचौर्य. परः । कम् ? परं श्रावकादिम् । अस्तेयव्रतस्य भावनाः प्रकारान्तरेण व्याचष्टे योग्यं गृह्णन् खाम्यनुज्ञातमस्यन् , सक्ति तत्र प्रत्तमप्यर्थवत्तत् । गृह्णन् भोज्येप्यस्तगोपसङ्गः, खाङ्गालोची स्यानिरीहः परस्खे ॥ ५७ ॥ साधुः परस्वे परधने निरीहो नि:स्पृहः स्यात् । किं कुर्वन् ? गृह्णन् स्वीकुर्वन् । किं तत् ? योग्यं ज्ञानाद्युपकरणम् । किंविशिष्टं सत् ? स्वाम्यनुज्ञातं तदधिपतिना गृहाणेत्यनुमतम् । एतेनाचारशास्त्रमार्गेण योग्ययाचनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy