________________
२२६
अनागारधर्मामृते
जन्मनि । न केवलमन्यभवेष्वपि भवान्तरेषु च । एते अपि कथे संग्रदायादवधायें । भूयोपि स्तेयदोषान् प्रकाशयंस्तद्विरतिं दृढयति
गुणविद्यायशःशर्मधर्ममर्माविधः सुधीः ।
अदत्तादानतो दूरे चरेत्सर्वत्र सर्वथा ॥ ५३ ॥ सुधीः सुमतिः सर्वत्र देशे काले च सर्वथा सर्वेण प्रकारेण दूरे चरेत् । अपसरेदित्यर्थः । कस्माद् ? अदत्तादानतः परेणादत्तस्य तद्धनस्य ग्रहणात् । किंविशिष्टात् ? गुणेत्यादि । गुणाश्च कोलीन्यविनयादयो विद्याश्च यशश्च शर्म च धर्मश्च । तेषां मर्माविधो लक्षणया सद्यो विनाशनात् । मर्मणि हि विद्धे प्राणी सद्यो म्रियते यथा तथा स्तेये कृते गुणादिभिर्नरस्तरक्षणे वियुज्यते इत्यर्थः । ज्ञानसंयमादिसाधनं विधिना दत्तं गृह्णीयादित्यनुशास्ति
वसतिविकृतिबर्हवृसीपुस्तककुण्डीपुरःसरं श्रमणैः ।
श्रामण्यसाधनमवग्रहविनाग्राह्यमिन्द्रादेः ॥ ५४॥ ग्राह्य स्वीकार्यम् । किं तत् ? श्रामण्यसाधनम् । श्रामण्यस्याध्ययनकायशुद्धिसंयमादेः साधनं सिद्ध्यङ्गम् । कैः ? श्रमणैस्तपस्विभिः । किंत्रिशिष्टम् ? वसतीत्यादि । वसतिः प्रतिश्रयः । विकृतिर्गोमयदग्धमृत्ति. कादिः । बर्ह पिच्छम् । वृसी वतिनामासनम् । कुण्डो कमण्डलुः । वस. तिश्च विकृतिश्च बह च वृसी च पुस्तकश्च कुण्डी च । ताः पुरःसरा आद्या यस्य तृणास्तरणादेस्तत् तथोक्तम् । कस्माद्राह्यम् ? इन्द्रादेवेन्द्रनृपतिप्रमुखात् । केन ? अवग्रहविधिना स्वीकरणविधानेन । _ विधिवद्दत्तं गृहीत्वा यथोक्तं चरतः समीहितसिद्धिमभिधत्तेशचीशधात्रीशगृहेशदेवतासधर्मणां धर्मकृतेस्ति वस्तु यत् । ततस्तदादाय यथागमं चरन्नऽचौर्यचुंचुः श्रियमेति शाश्वतीम्
शचीशः इन्द्र इह हि किल पूर्वादिदिक्तयस्याधिपः सौधर्मेन्द्र उत्तरस्याश्चैशानेन्द्रः । धात्रीशो भूपतिः । गृहेशो वसतिस्वामी । देवता क्षेत्राधि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org