________________
चतुर्थोऽध्यायः।
अन्यस्मिन्नपराधे ददति जना वासमात्मनो गेहे। मातापि निजे सदने यच्छति वासं न चौरस्य ॥ चौरस्यातिदुःसहदुःखहेतुपातकबन्धं निबोधयति
भोगवाददुराशयार्थलहरीलुब्धोऽसमीक्ष्यैहिकीः, खस्य स्वैः सममापदः कटुतराः स्वस्यैव चामुष्मिकीः । आरुह्यासमसाहसं परधनं मुष्णनघं तस्कर,स्तत्किंचिचिनुते वधान्तविपदो यस्य प्रसूनश्रियः॥५१॥ तस्करश्चौरस्तत्किचिदनिर्वचनीयमघं पापं चिनुते बध्नाति । बधातविपदो यस्य प्रसूनश्रियः पुष्पसंपदः । किं कुर्वन् ? परधनं मुष्णन्नपहरन् । किं कृत्वा ? आरुह्य चटित्वा । किं तत् ? असमसाहसमसाधारणं स्वजीवितावमाननेन कर्म । किं कृत्वा ? असमीक्ष्यानालोच्य । काः ? आपदो विनिपातान् । कस्य ? स्वस्यात्मनः । कथम् ? समं सह । कैः ? स्वैर्बन्धुभिः । किं विशिष्टाः ? ऐहिकीरिहलोकभवाः । न केवलं ता आमुष्मिकीश्च नरकादिभवाः । कस्य ? स्वस्यैवात्मन एव जनस्य स्वेषाम् । किंविशिष्टाः ? कटुतरा ऐहिकीभ्यः कटुभ्योतिशयेन कटूः । किं विशिष्टः सन् ? अर्थलहरीलब्धः । अर्थस्य धनस्य लहरी युगपत्प्राचुर्यागमः । तत्र लुब्धो गृघ्नः । कया ? भोगस्वाददुराशया विषय. स्वादनदुष्टाशया। वधो जीवितच्छेदोन्ते यासां ता बधान्ताः। ताश्च ता विपदश्च यातनादयः। स्तेयतन्निवृत्योः फलं दृष्टान्तमुखेनाचष्टे
श्रुत्वा विपत्तीः श्रीभूतेस्तद्भवेन्यभवेष्वपि ।
स्तेयात्तगतयेन्माढिमारोढुं वारिषेणवत् ॥ ५२ ॥ व्रतयेन्निवर्तयेत्स्व हितैषी । किं तत् ? तत्स्तेयम् । किं कर्तुम् ? आरोढुं प्रकर्षण प्राप्तुम् । काम् ? मादि पूजाम् । किंवत् ? वारिषेणवत् । वारिषेणेन तुल्यम् । किं कृत्वा ? श्रुत्वाऽऽकर्ण्य । काः ? विपत्तीर्विपदः । कस्य ? श्रीभूतेः । कस्मात् ? स्तेयाचौर्यात् । क ? तद्भवे तस्मिन्नेव
अन x १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org