________________
२२४
अनगारधर्मामृते
तथा
जीवति सुखं धने सति बहुपुत्रकलत्रमित्रसंयुक्तः । धनमपहरता तेषां जीवितमप्यपहृतं भवति ॥ द्रविणापहारः प्राणिनां प्राणापहार इति दर्शयति
त्रैलोक्येनाप्य विक्रेयानऽनुप्राणयतोङ्गिनाम् ।
प्राणान् रायोऽणकः प्रायो हरन हरति निघृणः ॥४९॥ हरति मुष्णाति । कोसौ ? अणको निकृष्टः पुमान् । कान् ? प्राणान् जीवितम् । केषाम् ? अङ्गिनाम् । किंविशिष्टः ? निघणो निष्करुणो यतः। कथम् ? प्रायो बाहुल्येन । किं कुर्वन् ? हरन् चोरयन् । कान् ? रायो धनानि । किं कुर्वतः ? अनुप्राणयतोऽनुगतं वर्तयतः । कान् ? प्राणान् । किंविशिष्टान् ? अविक्रेयान् विक्रेत्तुमशक्यान् । केन ? त्रैलोक्येनापि । यदि कश्चिद्रूते तुभ्यं त्रैलोक्यं ददामि यदि मे स्वप्राणान् ददासीति तथापि न कश्चित्स्वप्राणान्दातुमिच्छतीत्यर्थः । प्राय इति प्रगतपुण्यो वा प्रगतोऽयः पुण्यं यस्मात् । तदुक्तम्
पापास्त्रवणद्वारं परधनहरणं वदन्ति परमेव ।
चौरः पापतरोसौ शौकनिकव्याधजारेभ्यः॥ चौरस्य मातापित्रादयोपि सर्वत्र सर्वदा परिहारमेवेच्छन्तीत्याह
दोषान्तरजुषं जातु मातापित्रादयो नरम् ।
संगृह्णन्ति न तु स्तेयमषीकृष्णमुखं कचित् ॥ ५० ॥ संगृहन्ति संगोपयन्ति । के ? मातापित्रादयो जननीजनकभ्रातृप्रभृ. तयः । कम् ? नरम् । किंविशिष्टम् ? दोषान्तरजुषं स्तेयादन्यस्थापराधस्य भक्तारम् । कथम् ? जातु कदाचित् ? न तु न पुनर्मातापित्रादयोपि कचिदेशे काले च नरं संगृह्णन्ति । किंविशिष्टम् ? स्तेयमषीकृष्णमुखं चौर्यकजलरसकालवक्त्रम् । तथा चोक्तम्
अन्यापराधबाधामनुभवतो भवति कोपि पक्षेपि । चौर्यापराधभाजो भवति न पक्षे निजोपि जनः॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org