________________
चतुर्थोऽध्यायः ।
२२३
किंच, अहमयोग्यं न ब्रवीमीत्येतावता सत्यव्रतं पालितमिति मुमुक्षुणा नाश्वसनीयं यावता परेणोच्यमानमप्यसत्यवचनं शृण्वतोऽशुभपरिणामसंभवात्कर्मबन्धो महान्भवतीत्यसत्यस्य वचनमिव श्रवणमपि यत्नतः साधुना परिहार्यम् । तदुक्तम् —
विदं सच्च कजे काले मिदं सविसए य । भत्तादिकहारहिंदं भणाहि तं चैव य सुणाहि ॥ इति सत्यमहाव्रतम् ।
तथैकादशभिः पथैरचौर्यव्रतं व्याचिख्यासुः स्तेयदोषख्यापनपुरःसरं तत्परिहारमुपदेष्टुं तावदिदमाह
दौर्गत्याद्युग्रदुःखाग्रकारणं परदारणम् ।
हेयं स्तेयं त्रिधा रामहिंसामिष्टदेवताम् ॥ ४८ ॥
हेयं त्याज्यं मुमुक्षुणा । किं तत् ? स्तेयं स्तेनस्य चौरस्य कर्म । कथम् ? त्रिधा मनोवाक्कायैः । किं कर्तुम् ? आराद्धुमाराधयितुम् । काम् ? अहिंसाम् । किंविशिष्टाम् ? इष्टदेवताम् । इष्टा अभिमता इष्टार्था वा देवता देवी । किंविशिष्टं स्तेयम् ? दौर्गत्याद्युग्रदुःखाग्रकारणं यतः दौर्गत्यं नरकादिगतिर्दारिद्र्यं वा । दौर्गत्यमादिर्येषां वधबन्धाद्यपायानां ते दौर्गत्यादयः । तेषां त एव वा उग्रं रौद्रं दुःखं देहमनस्तापः । तस्याग्रकारणं प्रधानहेतुः । तदुक्तम्
“वधबन्धयातनाश्च छायाघातं च परिभवं शोकम् । स्वयमपि लभते चौरो मरणं सर्वस्वहरणं च ॥"
इत्यादि । तथा परदारणम् । परस्य धनपतेः परमुत्कृष्टं वा दारणं विनाशनम् ।
तदप्युक्तम्
अपहृते पुरुषः प्रोन्मत्तो विगतचेतनो भवति । म्रियते कृताकारो रिक्तं खलु जीवितं जन्तोः ॥
१ तद्विपरीतं सत्यं कार्ये काले मितं स्वविषये च । भक्तादिकथारहितं भण तचैव च शृणु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org