SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२२ अनगारधर्मामृते देशेष्टस्थापनानामरूपापेक्षाजनोक्तिषु । संभावनोपमाभावेष्विति सत्यं दशात्मना ॥ ओदनोप्युच्यते चोरो राशी देवीति संमता। दृषदप्युच्यते देवो दुर्विधोपीश्वराभिधः॥ दृष्टाधरादिरागापि कृष्णकेश्यपि भारती । प्राचुर्याच्च्चतरूपस्य सर्वशुक्लेति सा स्तुता ॥ हस्वापेक्षो भवेद्दीर्घः पच्यन्ते किल मण्डकाः। अपि मुष्ट्या पिनष्टीन्द्रो गिरीन्द्रमपि शक्तितः॥ अतद्रूपापि चन्द्रास्या कामिन्युपमयोच्यते । चौरे दृष्टेप्यदृष्टोक्तिरित्यादि वदतां नृणाम् ॥ स्यान्मण्डलाद्यपेक्षायां सत्यं दशविधं वचः। पल्यं चेत्यत्र चशब्दोनुऽक्तसमुच्चयार्थः । तेनैतदपि संगृहीतं यत्तु नवधाऽसत्यमृषारूपमनुभयं वचस्तदपि मार्गाविरोधेन वदतां न सत्यवतहानिरनृतनिवृत्त्यनतिवृत्तेरिति । तथा चोक्तम् सत्यमसत्यालीकव्यलीकदोषादिवयंमनवद्यम् । सूत्रानुसारि वदतो भाषासमितिर्भवेच्छुद्धा ॥ तद्यथायाचनी ज्ञापनी पृच्छानयनी संशयन्यपि । आह्वानीच्छानुकूला वाक् प्रत्याख्यान्यप्यनक्षरा॥ असत्यमोषभाषेति नवधा बोधिता जिनैः। व्यक्ताव्यक्तमतिज्ञानं वक्तुः श्रोतुश्च यद्भवेत् ॥ अत्र विवरणश्लोकास्त्रयःत्वामहं याचयिष्यामि ज्ञापयिष्यामि किंचन । प्रष्टुमिच्छामि किंचित्त्वामानेष्यामि च किंचन ॥ बालः किमेष वक्तीति ब्रूत संदेग्धि मे मनः। आह्वयाम्येहि भो भिक्षो करोम्याज्ञां तव प्रभो ॥ किंचित्त्वां त्याजयिष्यामि हुंकरोत्यत्र गौः कुतः । याचन्यादिषु दृष्टान्ता इत्थमेते प्रदर्शिताः॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy