________________
चतुर्थोऽध्यायः।
२२१
भावे प्रासु, पचौदनं व्यवहतो, दीर्घः प्रतीत्येति ना पल्यं चोपमितौ सितः शशधरो रूपेम्बुजं सम्मतौ ॥४७॥
इतिशब्द उदाहरणप्रदर्शनार्थो । दशस्वपि वाक्येषु पृथक् संबध्यते । तथाहि-स्यात् । किं तत् ? सत्य तथ्यं वचः । क्वनाम्नि। नामविषयं नामसत्यमित्यर्थः । कथम् ? (१) नरीश्वर इति, यथा नरि मनुष्यमात्रे ईश्वर ऐश्वर्याभावेपि व्यवहारार्थमीश्वर इति संज्ञाकरणम् । एवं सर्वत्र योज्यम् । (२) अन्धसि भक्ते चोर इति व्यपदेशो जनपदसत्यं तत्र स्वार्थनियतत्वेन तस्य रूढत्वात् । (३) अक्षादिषु देवोयमिति न्यसनं स्थापने सत्यम् । स्थापनासत्यमित्यर्थः । अक्षः सामुद्रो द्वीन्द्रियकायविशेषः पाशको वा । आदिशब्देन कर्करादिग्रहः । (४) दारयेदपि गिरि शीर्षेण अपि शिरसा पर्वतं भिन्धादिति संभावने सत्यं संभावनासत्यमित्यर्थः । वस्तुनि तथाऽप्रवृत्तेपि तथाभूतकार्ययोग्यभावदर्शनादेवमुच्यते । अन्ये पुनरस्य स्थाने संयोजनासत्यमाहुः। यथा चारित्रसारे-" धूपचूर्णवासनानुलेपनप्रघर्षादिषु पद्ममकरहंससर्वतोभद्रक्रौञ्चव्यूहादिषु वा चेतनेतरद्रव्याणां यथाभागविधानसन्निवेशाविर्भावकं यद्वचस्तत्संयोजनासत्यम् ।" (५) भावे प्रास्विति छद्मस्थज्ञानस्य द्रव्ययाथात्म्यादर्शनेपि संयतस्य संथतासंयतस्य वा स्वगुणपरिपालनार्थ प्रासुकमिदमप्रासुकमित्यादि यद्वच. स्तनावसत्यमित्यर्थः । प्रगता असवः प्राणा यस्मात् तत्प्रासु प्रासुकमित्यर्थः । निरीक्ष्य स्वप्रयताचारो भवत्येवमादिकं वा भावसत्यमऽहिंसालक्षणभावपालनाङ्गत्वात् । (६) पचेत्यादि । सिद्धेप्योदने लोकव्यवहारानुसरणात् तन्दुलान्पचेति वक्तव्ये ओदन पचेति वचनं व्यवहारसत्यम् । (७) दीर्घ इत्यादि ना पुरुषो दी?यमित्यापेक्षिकं वचः प्रतीत्य सत्यमित्यर्थः । प्रतीत्या सत्यं प्रतीति विशिष्टं सत्यं प्रतीतिसत्यमिति वा व्याख्येयम्। (4) उपमिती सत्यमुपमानसत्यं पल्यमिति पल्योपमं चन्द्रमुखी कान्तेत्यादि यथा । (९) रूपे सत्यं रूपसत्यं सितः शशधर इति, सतोपि चन्द्रस्य लाञ्छने कार्य्यस्याविवक्षितत्वात् । (१०) संमतौ लोकाविप्रतिपत्तौ सत्यं संमतिसत्यमम्बुजमिति । यथा पङ्काद्यनेककारणत्वेपि पभस्याम्बुनि जातमम्बुजमिति व्यपदेशः । इत्थं वा श्लोकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org