SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२० अनगारधर्मामते अनुसूत्रयेत् सूत्रानुसारेणाचक्षीत । कोसौ ? स्वस्थः परद्रव्यचासङ्गरहितो निर्व्याधिश्च । तल्लक्षणं यथा समदोषः समाग्निश्च समधातुमलक्रियः। प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ॥ काम् ? गिरं वाचम् । किं कृत्वा ? हत्वा निगृह्य । किं तत् ? हास्यं हसनक्रियाम् । किंवत् ? कफवत् श्लेष्माणमिव जाड्यमोहादिहेतुत्वात् । तथापास्य निराकृश्य । कम् ? लोभम् । किंवत् ? आमववाममिकालिदुर्जयविकारसवात् । आमलक्षणं यथा ऊष्मणोल्पक्लत्वेन धातुमान्द्यमपाचितम् । दुष्टमामाशयगतं रसमामं प्रचक्षते ॥ अन्ये दोषेभ्य एवातिदुष्टेभ्योन्योन्यमूर्छनात्। कोद्रवेभ्यो विषस्येव वदन्त्यामस्य संभवम् ॥ तथा भित्त्वा विच्छिद्य । किं तत् ? भयम् । किं वत् ? वातवद्वातमिव मनोविप्लवादिहेतुत्वात् । तथापोह्य निषिध्य । कम् ? कोपम् । किंवत् ? पित्तवत्पित्तमिव संतापभूयिष्ठत्वात् । सत्यमृषाभाषिणोः फलविशेषमाख्यानमुखेन ख्यापयन्नाह सत्यवादीह चामुत्र मोदते धनदेववत् । मृषावादी सधिकारं यात्यधो वसुराजवत् ॥ ४६॥ मोदते प्रह्लादते । कोसौ ? सत्यवादी । क ? इहामुत्र चेहलोके परलोके च । किं वत् ? धनदेववद् धनदेवेन तुल्यम् । मृषावादी पुनः सधिक्कारं सगर्हमधो याति । किंवत् ? वसुराजवद्वसुराजेन तुल्यम् । एतदपि कथाद्वयं संप्रदायाद्वेद्यम् । " जनान्तसंमतिन्यासनामरूपप्रतीतिषु । सत्यं संभावने भावे व्यवहारोपमानयोः॥" इति दशप्रकारं सत्यमुदाहरणद्वारेण प्रचिकटयिषुराहसत्यं नाग्नि नरीश्वरो, जनपदे चोरोन्धसि, स्थापने देकोक्षादिष, दास्येदपि गिरिं शीर्षेण संभावने। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy