________________
www
m
चतुर्थोऽध्यायः। साधुना सज्जनसौहित्याय समये वक्तव्यमित्यनुशास्ति
साधुरत्नाकरः प्रोद्यद्दयापीयूषनिर्भरः।
समये सुमनस्तृप्त्यै वचनामृतमुद्रेित् ॥ ४३ ॥ उद्गिरेखुदीरयेत् । कोसौ ? साधुरत्नाकरः । साधुः सिद्धिसाधनोद्यतो रत्नाकरः समुद्र इव गाम्भीर्यादिगुणयोगात् । किंविशिष्टः ? प्रोद्यता प्रोच्छलता दयापीयूषेणानुकम्पामृतेन निर्भरो निरन्तरपूर्णः। किमुद्रिरेत् ? वचनामृतं वाक्यपीयूषम् । कस्यै ? सुमनस्तृप्त्यै देवानामिव सजनानां तर्पणार्थम् । क ? समये प्रस्तावे प्रवचनविषये वा । मुमुक्षोौनं स्वार्थाविरोधेन वक्तृत्वं चोपदिशति
मौनमेव सदा कुर्यादार्यः स्वाथै कसिद्धये ।
स्वैकसाध्ये परार्थे वा ब्रूयात्स्वार्थाविरोधतः ॥४४॥ आर्यो गुणैर्गुणवद्भिश्च गम्यमानो मुनिः सदा मौनमेव कुर्यात् । न ब्रूयादित्यर्थः । कस्यै ? स्वार्थकसिद्धये स्वार्थस्यैकस्य केवलस्य परार्थनिरपेक्षस्य निष्पत्यर्थम् । परार्थाः खलु वाचः । पक्षान्तरमाह-परार्थे तु स्वैकसाध्ये स्वेनात्मनैकेन साध्ये साधयितुं शक्ये सत्यार्योपि ब्रूयात् । केन ? स्वार्थाविरोधतः स्वार्थस्यानुपघातेन । उक्तं च
मौनमेव हितं पुंसां शश्वत्सर्वार्थसिद्धये । वचो वातिप्रियं तथ्यं सर्वसत्त्वोपकारि यत् ॥ तथाधर्मनाशे क्रियाध्वंसे स्वसिद्धान्तार्थविप्लवे ।
अपृष्टैरपि वक्तव्यं तत्स्वरूपप्रकाशने ॥ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं चेति पञ्च भावयता सत्यव्रतमुच्चैरुद्योत्यमिति शिक्षार्थमाह
हत्वा हास्यं कफवल्लोभमपास्यामवद्भयं भित्त्वा । वातवदपोह्य कोपं पित्तवदनुसूत्रयेद्रिं स्वस्थः ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org