________________
चतुर्थोऽध्यायः ।
www
भवति । किंविशिवम् ? विषेत्यादि । विषं च शखं च पावकाग्निर्विषशस्वपावकाः । तेषां तिरस्कारः परिभवो निर्लोठनम् । तेनोबुरा उत्कटा अहंकृतिरहंकारो यस्य तत्तथोक्तम् । मोहासह्यदुःखसंतापादिकार्यकारित्वेन विषावित्रयादतिरिक्तमित्यर्थः तथा
"पैशून्यहास्यगर्भ कर्कशमसमञ्जसं प्रलपितं च ।
अन्यदपि यदुत्सूत्रं तत्सर्व गर्हितं गदितम् ॥" इत्येवंविधं यद्दर्हिताख्यमनृतं भवति । किंविशिष्टम् ? गर्हितं निन्दितम्। केषु मध्ये ? म्लेच्छेष्वपि म्लेच्छैरपि नाद्रियते। किमुतारित्यपिशब्दार्थः । म्लेच्छा हि सर्वधर्मबहिष्कृताः । तेपि यन्निन्दन्तीत्यर्थः । तद् षड्विधमप्य. नृतं जल्पन् ब्रुवन् कुधीः कुमतिश्चेद्यदि न पश्यति नावलोकयति । काः ? दुर्गतीनरकादिगतीः। किंविशिष्टाः ? रौरवप्राया रौरवोत्यन्तघोरो नरकविशेषः । स प्रायेण बाहुल्येन यासु ताः। तर्हि ही कष्टम्। किम् इति कुधीन पश्यति । कान् ? जिहाच्छिदाद्यान् । जिह्वायाश्छिदा छेदन. माद्या येषां विषाग्न्युदकाद्यसहनस्वजनावमाननमित्रविरक्तिसर्वस्वहरणाद्यपायानां तान् । किमितीति हीति च खेदातिशयसूचनाौँ ।
अद्भुतानुभावभूयस्तया सूनृतवचसो नित्यसेव्यतामुपदिशतिविद्याकामगवीशकृत्करिमरिपातीप्यसपौषधं, कीर्तिस्वस्तटिनी हिमाचलतटं शिष्टाब्दषण्डोष्णगुम् । वाग्देवीललनाविलासकमलं श्रीसिन्धुवेलाविधुं, विश्वोद्धारचणं गृणन्तु निपुणाः शश्वद्वचः सूनृतम् ॥४१॥
गृणन्तु भाषन्ताम् । के ? निपुणाः सूक्ष्मेक्षिणः । किं तत् ? वचः। किंविशिष्टम् ? सूनृतम् । कथम् ? शश्वन्नित्यम् । किंविशिष्टं तदित्याहविद्याकामगवीशकृत्करिं। विधिना साधिता या सिध्यति सा विद्या कामगवी कामधेनुरिव, कामितार्थसंपादकत्वात् । तस्याः शकृत्कार वसं वत्सेनेव सून्तवचनस्य संयोगात्कामधेनोरिच विद्यायाः कामितार्थप्रद स्वात् । तदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org