SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१६ अनगारपासते-- विसबेयणरतक्खय सत्थगहणाइसंकिलेसेहि। आहारोस्सासाणं णिरोहओ छिजए आऊ। अन्ये त्वेवमाहुःमरणं प्राणिनां दृष्टमायुःपुण्योभयक्षयात् । तयोरप्यक्षयाद् दृष्टं विषमाऽपरिहारिणाम्॥ तथा भवत्यसदुद्भावनं नाम द्वितीयमनुतम् । कथम् ? इत्येवं कृतमुस्पादितम् । किं तत् ? श्मादि क्षितिपर्वतवृक्षादिकम् । केन ? शिवेन महेश्वरेण । तदप्यसत्, प्रमाणबाधितत्वात् । न कदाचिदनीदृशं जगदित्यन्यैरप्यभिधानाच । इतिः प्रकारार्थे । नास्ति सुराणामकाले मृत्युरित्यादि वेद्यम् । तथा विपरीतं नाम तृतीयमनृतं भवति । कथम् ? इति एवम् भवति । कोसौ ? उक्षा गौः । किम् ? वाजी घोटकः । तथा निन्द्यं नाम चतुर्थमनृतं भवति । किंविशिष्टम् ? त्रिविधं । कस्मात् ? सावद्याप्रियगर्हितभे. दात् । सावधं चाप्रियं च गर्हितं च, तैर्भेदस्तस्मात् ॥ चतुर्विधस्याप्यनृतस्य दोषानाहयद्विश्वव्यवहारविप्लवकरं यत्प्राणिघातायघ,द्वारं यद्विषशस्त्रपावकतिरस्कारो राहंकृति । यन्म्लेच्छेष्वपि गर्हितं तदनृतं जल्पन्न चेद्रौरवप्रायाः पश्यति दुर्गतीः किमिति ही जिह्वाच्छिदाद्यान् कुधी:४० । यत्सत्प्रतिषेधनाद्यनृतत्रयं भवति । किंविशिष्टम् ? विश्वेत्यादि । विश्वे लौकिकाः शास्त्रीयाश्च व्यवहाराः प्रवृत्तिनिवृत्तयो विश्वव्यवहाराः । विश्वेषां वा वर्णाश्रमाणां व्यवहाराः आचारा विश्वव्यवहाराः। तेषां विप्लवं ना. शमन्यथाभावं वा करोति यत्तदेवम् । तथा यत्सावद्याख्यमनृतं भवति । किंविशिष्टम् ? प्राणिघाताद्यघद्वारम् । प्राणिघात आविर्येषां चौर्यमैथुनादीनां तानि प्राणिघातादीनि कर्माणि । तेषामघानि पापानि । तेषां द्वारं प्रवेशमार्गः । तद्यथा-'पृथिवीं खन । नाहि शीतोदकेन । पचाएपम् । प्रसूनमुच्चिनु । चोरोयम्' इत्यादि । तथा यदप्रियाख्यमन्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy