________________
चतुर्थोऽध्यायः।
२१५
आत्मपरिणामहिंसनहेतुत्वात्सर्वमेव हिंसैतत् । अनृतवचनादि केवलमुदाहृतं शिष्यबोधार्थम् ॥ सत्यव्रतस्वरूपं निरूपयन्नाह- -
अनृताद्विरतिः सत्यव्रतं जगति पूजितम् ।
अनृतं त्वभिधानं स्याद्रागाद्यावेशतोऽसतः ॥ ३७ ॥ जगति लोके पूजितं पूज्यमानं सत्यव्रतं स्यात् । किम् ? विरतिावृत्तिः । कस्मात् ? अनृतादसत्यवाग्योगादात्मपरिणामात् तस्यैव कर्मबन्धनिबन्धनत्वेन वस्तुवृत्त्या परिहार्यत्वात् तन्निमित्तकपौगलिकवचनस्य व्यवहारेणैव परिहार्यत्वसमर्थनात् । अनृतं तु स्यात् । किम् ? अभिधानम् भाषणम् । कस्य ? असतोऽशोभनस्य कर्मबन्धनिमित्तवचनस्येत्यर्थः । कस्मात् ? रागाद्यावेशतो रागद्वेषमोहपरिणमनात् ॥
चतुःप्रकारमनृतं सोदाहरणं निरूप्य तत्परिहारं त्रिविधेन विधापयितुमाद्वियमाह
नाकालेस्ति नृणां मृतिरिति सत्प्रतिषेधनं शिवेन कृतम् । क्ष्मादीत्यसदुद्भावनमुक्षा वाजीति विपरीतम् ॥ ३८॥ सावद्याप्रियगर्हितभेदात्रिविधं च निंद्यमित्यनृतम् । दोषोरगवल्मीकं त्यजेचतुर्धापि तत्रेधा ॥३९॥
(युग्मम्) तदनृतं सत्प्रतिषेधनासदुद्भावनविपरीतनिन्धविकल्पाश्चतुर्धापि चतुर्विधमपि त्रेधा मनोवाकायैर्मुमुक्षुस्त्यजेत् । कुतः ? दोषोरगवल्मीकं यतः दोषा वक्ष्यन्ते । दोषा उरगाः सपा इव बह्वपायत्वात् । तेषां वल्मीकं नाकु: प्रभवनिवासनिबन्धनत्वात् । कथं चतुर्धा ? इत्येवं भवति । तावत् सत्प्रतिषेधनं नाम प्रथममनृतम् । कथम् ? इत्येवम् । नास्ति । कासौ ? मृतिमरणम् । केषाम् ? नृणां चरमदेहवय॑कर्मभूमिजमनुष्याणाम् । क ? अकाले आयुर्भुक्तिक्षयकालादन्यदा । तदसत्, अकालेपि विषवेदनादिना मरणस्य दृश्यमानत्वात् । तदुक्तम्--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org