________________
२१४
अनगारधामृते
___ व्रतानि रत्नानीवाचिन्त्यप्रभावत्वात् । व्रतानि चरितानि रत्नानि च व्रतरस्नानि । निशेषाणि समस्तानि च तानि व्रतरत्नानि च, तेषां खानिरा. कर उत्पत्तिहेतुत्वात् । क्लेशा दुःखानि अहयः सपा इव संक्लेशकारणत्वात् । अखिलाः सर्वे च ते क्लेशाहयश्वाखिलक्लेशाहयः । तेषां तााहतिगरुडाघातः । यथा गरुडचंचुताडनेन सर्वे सर्पाः प्रलीयन्ते तथाऽहिंसया सर्वे क्लेशा इत्यर्थः। आनन्दः प्रमोदोऽमृतमिव सर्वैरिष्यमाणत्वात् । तस्य सिधुः समुद्रः प्रभवस्थानत्वात् । अद्भुताश्च ते गुणाश्चाद्भुतगुणाः। अमानां देवानामगा वृक्षा अमागाः कल्पवृक्षाः। अद्भुतगुणा अमागा इव संकल्पितार्थसंपादकत्वात् । तेषां भोगावनी देवकुरुप्रमुखभोगभूमिः । यथासौ कल्पवृक्षैः संततं संयुक्ता तथाऽहिंसा जगच्चमत्कारकारिभिस्तपःसंयमादिभिर्गुणैरित्यर्थः । श्रीलीलावसतिर्लक्षम्या लीलागृहं निरातङ्कतया सुखावस्थानहेतुत्वात् । यशसः कीर्तेः प्रसवभूर्जन्मभूमियशःप्रसवभूश्च । इत्येवमष्टविशेषणविशिष्टाहिंसा प्रोदेति प्रकर्षणानन्यसामान्यतयोदेत्युल्लसति । केषाम् ? सतां साधूनाम् । इत्यहिंसा. महाव्रतम् ॥
अथ द्वादशभिः पद्यैः सत्यव्रतं व्याचिकीर्षुरसत्यादीनां हिंसापर्यायवात् तद्विरतिरप्यहिंसाव्रतमेवेति ज्ञापयति
आत्महिंसनहेतुत्वाद्धिसैवासूनृताद्यपि । भेदेन तद्विरत्युक्तिः पुनरज्ञानुकम्पया ॥ ३६॥ भवति । किं तत् ? असूनृताद्यपि अनृतवचनादिकमपि । न केवलं प्राणव्यपरोपणमित्यपिशब्दार्थः । किं भवति ? हिंसैव, नार्थान्तरम् । कस्मात् ? आत्महिंसनहेतुत्वात् । आत्मनो हिंसनं शुद्धपरिणामोपमर्दः। स एव हेतुः कारणं यस्य तद्भावात् । प्रमत्तयोगैकहेतुकत्वादित्यर्थः । यद्येवं तर्हि हिंसाविरतेरर्थान्तरत्वेनानृतादिविरतिवचनमनर्थकं स्यादित्यत्राहमेदेन हिंसाविरतेः पृथक्त्वेन पुनस्तद्विरत्युक्तिरसूनृतादिनिवृत्तिवचनं क्रि. यतेऽस्माभिः । कया ? अशानुकम्पया मन्दमतयो मा मुह्यन्त्विति बुद्ध्या । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org