________________
चतुर्थोऽध्यायः।
२१३
प्रतफ्त्यऽव्याहतप्रभाषा भवति मुमुक्षोरहिंसा । किं कुर्वतः ? निगृडतो निरुम्धतः । के ? वाङानसी भाषाचेतसी । कथम् ? यथावत्सम्यक् संक्केशरहितस्वेन सरकारलोकमध्वप्रसिद्ध्याचाकाक्षात्यागेन च । एते वारगुतिमनोगुतिभावने। तथा चरिष्णोः साधुत्वेन पर्यटतः । कम् ? मार्ग पन्थानम् । कथम् ? विधिवच्छास्त्रोक्तविधानेन । एषा ईर्यासमितिभावना। तथाऽऽदाननिक्षेपकृतः । आदान पुखकाधुपकरणानां ग्रहणं, निक्षेपस्ते. षामेव स्थापनम् । भादानं च निक्षेपश्च सौ करोतील्यादाननिक्षेपकृत् तस्य । कथं कृत्वा ? यथार्ह यदसंयमपरिहारेणादातुं निक्षेप्तुं च योग्यं ज्ञानसंबमाधुपकरणं, तदनतिक्रमेण । एषाऽऽदाननिक्षेपणसमितिभावना तथा भोक्तु: साधु भुजानस । के ? अन्नपाने । अनमोदनादि पानमुदकादि । अन्नं च पानं च ते। किंविशिष्टे ? दृष्टे कल्यत्वे न कल्यत्वेते वेति चक्षुषा निरूपिते । एषाऽऽलोकितपानभोजनभावना । एताः पञ्च ॥
एतद्भावनावतां निजानुभावभर निर्भरमहिंसामहाव्रतं दूरमारोहतीति प्रतिपादयितुमाह
सम्यक्त्वप्रभुशक्तिसंपदमलज्ञानामृतांशुद्रुति,निःशेषत्रतरत्नखानिरखिलक्लेशाहितायांहतिः। आनन्दामृतसिन्धुरद्भुतगुणामत्यांगभोगावनी, श्रीलीलावसतिर्यशः प्रसवभूः प्रोदेत्यहिंसा सताम् ॥३५॥
सम्यक्त्वं प्रभुर्विजिगीषुरिव । तख शक्तिसंपत् शक्तित्रयी। अयमोंयथा विजिगीषुः
मन्त्रशक्तिर्मतिबलं कोषदण्डबलं प्रभोः। प्रभुशक्तिश्च विक्रान्तिबलमुत्साहशक्तिता। इति शक्तित्रयेण शत्रूनुन्मूलयति । एवं सम्यक्त्वं कर्मशत्रूनहिंसया अमलशानं शुद्धबोधोऽमृतांशुश्चन्द्र इव जगदाल्हादकत्वात् । तस्य दुतिः सुतिनिर्यासः । तथा चोकम्
सर्वेषां समयानां हृदयं गर्भश्च सर्वशास्त्राणाम् । प्रतगुणशीलादीनां पिण्डः सारोपि चाऽहिंसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org