________________
२१२
अनगारधर्मामृते
मविरमणमपीत्वर्थः । किविशिष्टः ? वामः प्रतिकूलः । दुःखकारीत्यर्थः । किंवत् ? परिणामवत । हिंसायाः परिणमनवद हिननीति परिणतिर्यया। उक्तं च
हिंसाया अविरमणं वधपरिणामोपि भवति हिंसैव ।
तस्मात्प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा॥ हिंसाया अहिंसायाश्च परिपाच्या फलोद्रेक दृष्टान्तेन प्रकटय्याऽहिंसापरिणत्यै स्वहितोद्यतान्नितान्तमुद्यमयति--
धनश्रियां विश्रुतदुःखपाका,माकर्ण्य हिंसां हितजागरूकाः । छेत्तुं विपत्तीमुंगसेनवच्च, श्रियं वरीतुं व्रतयन्त्वहिंसाम् ॥ ३३॥ व्रतयन्तु व्रतं कुर्वन्तु । के ? हितजागरूकाः स्त्रोपकारे जागरणशीलाः । काम् ? अहिंसाम् । अहिंसायां परिणमन्तामित्यर्थः। किं कर्तुम् ? छेत्तुं निवर्तयितुम् । काः ? विपत्तीर्विपदः । न केवलं, श्रियं च लक्ष्मी वरीतुं संभक्तुम् । किंवत् ? मृगसेनवन्मृगसेनाख्यधीवरेण तुल्यम् । किं कृत्वा ? आकर्ण्य आप्तेभ्यः श्रुत्वा । काम् ? हिंसाम्। किंविशिष्टाम् ! विश्रुतदुःखपाकाम् । विश्रुतः ख्यातो दुःखपाको दुःखानुभवनं यस्याः । कस्याम् ? धनश्रियां धनश्रीसंज्ञिकायां कुटुम्बिकपरन्याम् । एतत्कथाद्वयं संप्रदायादधिगन्तव्यम् ॥
वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनभावनापञ्चकेन भाव्यमानमहिंसावतं स्थिरीभूय परं माहात्म्यमासादयतीत्युपदिशति
निगृह्णतो वाचनसी यथाव,न्मार्ग चरिष्णोर्विधिवद्यथाम् । आदाननिक्षेपकृतोनपाने, दृष्टे च भोक्तुः प्रतपत्यहिंसा ॥३४॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org