________________
चतुर्थोऽध्यायः।
२११
हिंसाया दुर्गतिदुःखैकफलत्वमुदाहरणेन प्रव्यक्तीकर्तुमाहमध्ये मस्करजालि दण्डकवने संसाध्य विद्यां चिरात, कृष्टं शम्बुकुमारकेण सहसा तं सूर्यहासं दिवः । धृत्त्वायान्तमसिं बलाद्रभसया तां च्छिन्दता तच्छिर,श्छिन्नं यत्किल लक्ष्मणेन नरके ही तत्खरं भुज्यते ॥३१॥ ही कष्टं भुज्यतेऽनुभूयते । किं तत् ? तच्छिरश्छेदनार्जितपापफलम् । क? नरके निरये । कथं कृत्वा ? खरं तीक्ष्णमतिदुःसहमित्यर्थः । केन ? लक्ष्मणेन सौमित्रिणा। यत्किम् ? यच्छिन्नं खण्डितम् । किं तत् ? तच्छिरः। तस्य शम्बुकुमारकस्य शिरः शीर्षम् । केन ? लक्ष्मणेन । किलेत्यागमोक्तौ । किं कुर्वता? छिन्दता तेनासिना खण्डयता । काम् ? तां मस्करजालिम् । कया ? रभसया अविमृश्यकारितया । किं कृत्वा ? धृत्त्वा गृहीत्वा । कम् ? तं प्रसिद्धं सूर्यहासं सूर्यहासाख्यमसिं खङ्गम् । कस्मात् ? बलात् । कथम् ? सहसा झटित्युप्लुत्य । किं कुर्वन्तम् ? आयान्तमागच्छन्तम् । कस्मात् ? दिव आकाशात् । किंविशिष्टं संतम् ? कृष्टमाकृष्टमात्माभिमुखमाहूतम् । केन ? शम्बुकुमारकेण शूर्पणखा. पुत्रेण । किं कृत्वा ? संसाध्य सम्यग् विधिपूर्वकं साधयित्वा वशीकृत्य । काम् ? विद्यां तत्खगाधिदेवताम् । कस्मात् ? चिरात षण्मासात् । क ? मध्ये मस्कजालि वंशजालिमध्ये। क वंशजालिः । दण्डकवने पञ्चवटीवने।
हिंसायाः परिणतिरिवाविरतिरपि हिंसात्वात्तत्फलप्रदेति हिंसां न करोमीति स्वस्थंमन्यो भवान्मा भूदिति ज्ञानलवदुर्विदग्धं बोधयति
स्थान हिंस्यां न नो हिंस्यामित्येव स्यां सुखीति मा।
अविरामोपि यद्वामो हिंसायाः परिणामवत् ॥ ३२ ॥ भो सुखार्थिन्नात्मन्, मा स्थाद् मा भूगवान् । कथम् ? इति । कि. मिति ? स्यां भवेयमहम् । किंविशिष्टः ? सुखी सुखातिशयभाक् । कथम् ? इत्येवानेनैव परिणामेन । तमेवाह-न हिंस्यां हिंसां न कुर्यामहं, न नो हिंस्यां हिंसां न न कुर्यामहम् । यद्यस्माद्भवति । कोसौ ? अविरामोपि । कुतः ? हिंसायाः प्राणिनः प्राणान्न व्यपरोपयामीति संकल्पाकरणलक्षण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org