SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २१० अनगारधर्मामृते षड्जीवनिकायवधं यावज्जीवं मनोवचः कायैः । कृतकारितानुमननैरुपयुक्तः परिहर सदा त्वम् ॥ प्राणातिपातादिहामुत्र च घोरदुर्निवारमपायं दर्शयित्वा ततोत्यन्तं शिवार्थिनो निवृत्तिमुपदिशति - कुष्टप्रष्ठैः करिष्यन्नपि कथमपि यं कर्तुमारभ्य चाप्त, - भ्रंशोपि प्रायशोत्राप्यनुपरममुपद्र्यतेऽतीव रौद्रैः । यं चक्राणोथ कुर्वन्विधुरमधरधीरेति यत्तत्कथास्तां, कस्तं प्राणातिपातं स्पृशति शुभमतिः सोदरं दुर्गतीनाम् ३० " कः शुभमतिः श्रेयोर्थी तं तथाभूतं प्राणातिपातं हिंसां स्पृशति ? न कश्चिदनुतिष्ठतीत्यर्थः । किंविशिष्टम् ? सोदरं बान्धवम् । कासाम् ? दुर्गतीनां हिंसकजीवेन नारकादिगतीनामवश्यभोग्यत्वात् । यं प्राणातिपातं करिष्यन् कर्तुमिच्छन्, किं पुनः कृतवान् कुर्वन्वेत्यपिशब्दार्थः । पुरुष उपद्रूयते पीड्यते । कैः ? कुष्टप्रष्ठैः । कुष्टं त्वग्विकारः प्रष्ठमप्रेसरं येषां तैः । कुष्टजलोदर भगन्दरादिमहारोगैः । किंविशिष्टैः ? अतीव रौद्रैरत्युनैः । उक्तं च वातव्याध्यश्मरीकुष्टमेहोदरभगन्दराः । अर्शासि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥ कथं कृत्वा ? अनुपरमम् । नास्त्युपरम उपशमो यत्र, संततमित्यर्थः । छ ? अत्रापि अस्मिन्नपि जन्मनि । न केवलं यं करिष्यंस्तैः पीड्यते किन्तु यं कर्तुमारभ्य कथमपि केनापि प्रकारेणाप्तभ्रंशोपि प्राप्ततत्कारणान्तरायोपि च तैस्तादृग्भिः पीड्यते । कथम् ? प्रायशः प्रायेण देवादिवशात्तजन्मन्यपीड्यमानोपि जन्मान्तरेष्ववश्यमेव पीड्यते इत्यर्थः । यं पुनश्चक्राणः कृतवानथ कुर्वन्कुर्वाणो वाऽधरधीः कुमतिर्यद्विधुरं कृच्छ्रमेति गच्छति प्रमोति तत्कथा तस्य विधुरस्य कथा कथनमास्तां तिष्ठतु । तत्कथयितुमशक्यमित्यर्थः । ततो यावज्जीवं शिवार्थिना हिंसातो विरन्तव्यमिति विधौ पर्यवसन्तमेतत्प्रतिपत्तव्यम् ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy