________________
चतुर्थोऽध्यायः ।
२०९
अत एव तन्नाशं स्वचपुः प्रलयमात्मनः स्वस्थ नाशमव्यवस्थतः तथा नित्यस्याविनाशिनः । कस्मात् ? द्रव्यतो द्रव्यमपेक्ष्य । अर्थात्पर्यायतश्चानित्यस्य । तथा ततः स्ववपुषः स्यात्कथंचिद्भिन्नस्य । लक्षणभेदान्निज देहात्पृथग्भूतस्याशक्य विवेचनत्वाच्चाभिन्नस्य । ये तु जीवदेहावत्यन्तं भिन्नौ मन्यन्ते तेषां देहविनाशेपि जीवविनाशाभावाद्धिसानुपपत्तेः कुतस्तनिवृत्त्या प्राणिरक्षाप्रधानो धर्मः सिध्येत् ? तदुक्तम्
1
आत्मशरीरविभेदं वदन्ति ये सर्वथा गतविवेकाः । कायवधे हन्त कथं तेषां संजायते हिंसा ॥
ये च तयोरभेदैकान्तं मन्यन्ते तेषां कायविनाशे जीवस्यापि विनाशाकथं परलोकार्थं धर्मानुष्ठानं शोभते ? तदप्युक्तम्
जीववपुषोरभेदो येषामैकान्तिको मतः शास्त्रे । काय विनाशे तेषां जीवविनाशः कथं वार्यः ॥
ततो देहाद्भिन्नाभिन्न एवाहिंसालक्षणपरमधर्मसिद्ध्यर्थिभिरात्माभ्युपगन्तव्यः। तथात्मनः सर्वथा नित्यस्येव क्षणिकस्यापि हिंसा दुरुपपादा | इति नित्यानित्यात्मक एव जीवे हिंसासंभवात् तद्विरतिलक्षणधर्माचरणाथिभिर्द्रव्यरूपतया नित्यः पर्यायरूपतया चानित्यः प्रमाणप्रसिद्धो जीवः प्रतिपत्तव्यः । तथा चोक्तम्
जीवस्य हिंसा न भवेन्नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात्कथं हिंसोपपद्यताम् ॥
तत् तस्मात्कथं केन प्रकारेण कुर्यान्मनोवाक्कायकृतकारितानुमननानां मध्ये ? न केनापि प्रकारेण कुर्यादित्यर्थः । कोसौ ? समधीः शत्रौ मित्रे च समानमनाः । कम् ? प्राणवधम् । कस्य ? परस्य परात्मनः । किंवत् ? स्ववत् स्वात्मन इव । किं कुर्वन् ? जानन् निश्चिन्वन् । कम् ? प्राणिवधम् । किंविशिष्टम् ? घोरदुःखं घोरमसह्यं दुःखं यस्मात्तम् । उक्तनीत्या स्वस्येव परस्यापि घोरदुःखकारणं प्राणव्यपरोपणं निश्चिन्वन्नित्यर्थः । पुनः किंविशिष्टम् ? अकार्य यतः न हिंस्यात्सर्वभूतानीति शास्त्रे निषिद्धत्वान्न कर्तव्यम् । नित्यादिपक्षे तुक्तनीत्या कर्तुमशक्यं च यस्मात् । तथा चाहु:
अन० ध० १४
Jain Education International
For Private & Personal Use Only
www.m
www.jainelibrary.org