________________
२०८
.
अनगारधर्मामृते
द्विविधा निर्वर्तना । तथा सहसानाभोगदुःप्रमृष्टाप्रत्यवेक्षितभेदाच्चतुर्धा निक्षेपः। तत्र पुस्तकाधुपकरणशरीरतन्मलानि भयादिना शीघं निक्षिप्यमाणानि षड्जीवबाधाधिकरणत्वात् सहसानिक्षेपः । असत्यामपि त्वरायां जीवाः सन्त्यत्र न सन्तीति वा निरूपणामन्तरेण निक्षिप्यमाणमुपकरणादिकमनाभोगनिक्षेपः । तदेव दुःप्रमृष्टं निक्षिप्यमाणं दुःप्रमृष्टनिक्षेपः । प्रमार्जनोत्तरकालं जीवाः सन्त्यत्र न सन्तीति वाऽप्रत्यवेक्षितं निक्षिप्यमाणमप्रत्यवेक्षितनिक्षेपः। तथोपकरणभक्तपानसंयोजनभेदाद् द्विधा संयोगः। तत्र शीतस्य पुस्तकादेरातपातितप्तेन पिच्छादिना प्रमार्जनं प्रच्छादनादिकरणमुपकरणसंयोजनम् । तथा संमूर्छनादिसंभवे पानं पानेन पानं भोजनेन भोजनं भोजनेन भोजनं पानेनेत्यादिसंयोजनं भक्तपानसंयोगः । तथा दुष्टमनोवाकायप्रवृत्तिभेदाझिसर्गस्विधेति । तथा चोक्तम्
सहसानाभोगितदुःप्रमार्जिता प्रेक्षितानि निक्षेपे । देहश्च दुःप्रयुक्तस्तथोपकरणं च निवृत्तिः॥ संयोजनमुपकरणे पानाशनयोस्तथैव संयोगः। वचनमनस्तनवस्ता दुष्टा मेदा निसर्गस्य ॥ आत्मवत्परस्यापि प्राणव्यपरोपणमसह्यदुःखकारणमाकलयन् सर्वत्र सम. दर्शी सर्वथा तत्परिहरतीति स्थितार्थोपसंहारार्थमाह
मोहादैक्यमवस्यतः स्ववपुषा तन्नाशमप्यात्मनो, नाशं संक्लिशितस्य दुःखमतुलं नित्यस्य यद्रव्यतः । स्थाद्भिन्नस्य ततो भवत्यसुभृतस्तद्घोरदुःखं वव,
जानन् प्राणवध परस्य समधीः कुर्यादकार्य कथम् २९ यद् यस्मात्कारणाद्भवति । किं तत् ? दुःखम् । किंविशिष्टम् ? अतुलमसमम् । कस्य ? असुभृतः प्राणिनः । किंविशिष्टस्य सतः संक्तिशि. तस्य देहद्वारप्रवृत्तव्याधिजरामरणादिभयादिना कलुषितचित्तस्य । किं कुर्वतः ? अवस्यतो निश्चिन्वतः। किं तत् ? ऐक्यमभेदम् । कथम् ? सह । केन ? स्ववपुषा स्वोपात्तशरीरेण सह । कस्मात् ? मोहात् आत्मदेहान्तरज्ञानाभावात् । देह एवाहमहमेव देह इति प्रतिपद्यमानस्येत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org