________________
चतुर्थोऽध्यायः।
२०७
प्राणव्यपरोपणादिषु प्रमादवतः प्रयत्नावेशः संरम्भः । इन्द्रियकषायावतादिप्रवृत्तेः कारणमभिलाषो वा साध्याया हिंसादिक्रियायाः साधनानामभ्यासीकरणं समारम्भः। संचित हिंसाधुपकरणस्याद्यः प्रक्रम आरम्भः । तत्र क्रोधोदयात्कायेन कृतः कारितोनुमतश्चेति त्रयः संरम्भाः । एवं त्रयो मानावेशात् त्रयो मायोद्रेकात् त्रयश्च लोभोद्भवात् । इति द्वादशसंरम्भाः । तद्वसमारम्भा आरम्भाश्च द्वादश । इति सर्वे मिलिताः षट्त्रिंशत् । तथैव वाचापि ते षदत्रिंशत् । तथा मनसापि ते षत्रिंशदेव । इति सर्वे मिलि. ता अष्टोत्तरशतजीवाधिकरणास्रवभेदा हिंसाकारणानि स्युः । तत्परिणतश्च हिंसक इत्युच्यते, आत्मनो भावप्राणानां परस्य च द्रव्यभावप्राणानां वियोजकत्वात् । तथा चोक्तम्
रत्तो वा दुट्टो वा मूढो वा जं पउंजए पउगं । हिंसावि तत्थ जायदि तम्हा सो हिंसओ होइ ॥ एवमनन्तानुबन्ध्यादिभिरपि विशिष्य क्रोधादीन् पृथग् व्याख्येयम् । भावहिंसानिमित्तभूतपरद्रव्यनिवृत्तिं परिणामविशुद्ध्यर्थमुपदेष्टुमाचष्टे
हिंसा यद्यपि पुंसः स्यान्न स्वल्पाप्यन्यवस्तुतः ।
तथापि हिंसाऽऽयतनाद्विरमेद्भावशुद्धये ॥ २८॥ यद्यपि पुंसो जीवस्य स्वल्पापि हिंसा न स्यात् । कस्मात् ? अन्यवस्तुतः परद्रव्यात् । तथापि विरमेन्निवर्तेत मुमुक्षुः । कस्मात् ? हिंसायतनाद भावहिंसानिमित्तान्मित्रशत्रुप्रभृतेः । कस्यै ? भावशुद्धये भावस्थात्मपरिणामस्यात्मनो मनसो वा शुद्धिर्मोहोदयसंपाद्यमानरागद्वेषकालुष्यो. च्छेदः तदर्थम् । तथा यथा जीवपरिणामो हिंसोपकरणभूतो जीवाधिकरणमास्त्रवभेदोऽष्टोत्तरशतसंख्यं तथाऽजीवपर्यायोप्यजीवाधिकरणं चतुर्भेद स्यात् । ततस्तद्वत्ततोपि भावशुद्ध्यर्थं निवर्तेत । इत्यपि हिंसायतनाद्विरमेदित्यनेनैव सूचितं मन्तव्यम् । तद्यथा
निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः क्रमादजीवाधिकरणमिष्यते । तत्र हिंसोपकरणतया निवर्त्यते इति निवर्तना । एवं निक्षिप्यते इति निक्षेपः । इत्यादि वेद्यम् । दुष्प्रयुक्तो देहः सच्छिद्रादीनि चोपकरणानीति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org