________________
२०६
अनगारधर्मामृते
जइ सुद्धस्स य बंधो होहिदि बहिरंगवत्थुजोएण।
णत्थि दु अहिंसगो णाम वाउकायादि वधहेदू ।। एतदेवाह
तत्त्वज्ञानबलाद्रागद्वेषमोहानपोहतः।
समितस्य न बन्धः स्याद्गुप्तस्य तु विशेषतः ॥ २५ ॥ न स्यात् । कोसौ ? बन्धः कर्मोपश्लेषः । कस्य ? समितस्य समितिषु वर्तमानस्य । गुप्तस्य तु गुप्तिपरिणतस्य बंधो न स्यात् । केन ? विशेषतो विशेषेण । किं कुर्वतः ? अपोहतो निवर्तयतः। कान् ? रागद्वेषमोहान् । कस्मात् ? तत्त्वज्ञानबलात् ।
रागाद्युत्पत्त्यनुत्पत्ती हिंसाऽहिंसे इति जिनागमपरमरहस्यतया निश्चाययति
परं जिनागमस्येदं रहस्यमवधार्यताम् । हिंसा रागाधुदुद्भूतिरहिंसा तदनुद्भवः ॥ २६॥ अवधार्यतां निश्चितं चेतसि निवेश्यताम् । किं ? इदम् वक्ष्यमाणम् । किंविशिष्टम् ? परमुत्कृष्टं रहस्यमन्तस्तत्त्वम् । कस्य ? जिनागमस्य । किमिदमित्याह-हिंसेत्यादि । भवति । कासौ ? हिंसा । किम् ? रागाद्यदुद्भतिः। अहिंसा च भवति । किम् ? तदनुद्भवो रागादीनामनुत्पत्तिः। उदुद्भूतिरित्यत्र " प्रोपोत्समां पादपूरणे " इत्यनेनोदो द्वित्वम् ॥ अष्टोत्तरशतप्रकारहिंसाकारणनिरासादहिंसकः स्यादित्यनुशास्ति
कषायोद्रेकतो योगैः कृतकारितसम्मतान् ।
स्यात्संरम्भसमारम्भारम्भानुज्झन्नाहिंसकः ॥ २७ ॥ स्यात् ? कोसौ ? पुमान् । किंविशिष्टः ? अहिंसकः । किं कुर्वन् ? उज्झन वर्जयन् । कान् ? संरम्भसमारम्भारम्भान्। किंविशिष्टानू ? कृतकारितसम्मतान् । कृताश्च कारिताश्च सम्मताश्वानुमताः । कैः ? योगैमनोवाकायैः । कस्मात् ? कषायोद्रेकतः क्रोधादीनामुदयात् । तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org