________________
चतुर्थोऽध्यायः ।
२०५
स्यात् । वसति ? तदव्यपरोपेपि । तेषां प्राणानां वियोगाकरणेपि । उक्तं च
मरदु व जियदु व जीवो अजदाचारस्स णिच्छिदा हिंसा । पयदस्स णत्थि बंधो हिंसामत्तेण समिदस्स ॥
ननु यद्येवं तर्हि प्रमत्ते योगो हिंसेत्येवास्तु किं प्राणव्यपरोपणोपदेशेनेति चेन्न तत्रापि भावलक्षणप्राणव्यपरोपणसद्भावात् । एतदेव समर्थ -
यमानः प्राह
प्रमत्तो हि हिनस्ति स्वं प्रागात्माऽऽतङ्कतायनात् । परोनु प्रियतां मा वा रागाद्या हारयोङ्गिनः ॥ २४ ॥
,
हि यस्माद्धिनस्ति भावप्राणैर्वियोजयति । कोसौ ? आत्मा । किंविशिष्टः ? प्रमत्तः पञ्चदशप्रमादान्यतमपरिणतः । कम् ? स्वमात्मानम् । कस्मात् ? आतङ्कतायनादू दुष्कर्मनिर्मायकत्वेन स्वस्थ सद्यः पुरस्ताच्च व्याकुलत्वलक्षणदुःखसंतननात् । कथम् ? प्राक् परवधात्पूर्वम् । अनु पश्चादात्महिंसनादूर्ध्वं पुनः परो हन्तुमिष्टः प्राणी म्रियतां प्राणैर्वियुज्यतां मा वा नियताम् । तदुक्तम्
स्वयमेवात्मनात्मानं हिनस्त्यात्मा प्रमादवान् । पूर्व प्राण्यन्तराणां तु पश्चात्स्याद्वा न वा वधः ॥
कुत एतदित्याह यतो भवन्ति । के ? रागाद्या हि रागद्वेषमोहा एव न परप्राणवधः । किं भवन्ति ? अरयः शत्रवस्तेषामेव दुःखैककारणकर्मबन्ध निमित्तत्वेनापकारकत्वात् । कस्य ? अङ्गिनो जीवस्य । तथा चोक्तम्न कर्मबहुलं जगन्न चलनात्मकं कर्म वा । a नैककरणानि वा न चिदचिद्वधो बन्धकृत् ॥ यदैक्यमुपयोगभूः समुपयाति रागादिभिः । स एव किल केवलं भवति बन्धहेतुर्नृणाम् ॥ यदि पुनः शुद्धपरिणामवतोपि जीवस्य स्वशरीरनिमित्तान्यप्राणिप्राणवियोगमात्रेण बन्धः स्यान्न कस्य चिन्मुक्तिः स्यात्, योगिनामपि वायुकायिकादिवधनिमित्तसद्भावात् । तथा चाभाणि -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org