SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०४ अनगारधर्मामृते निष्ठापयेन्न पर्याप्तिमपूर्णस्योदये स्वकाम् । सान्तर्मुहूर्तमृत्युः स्याल्लब्ध्यपर्याप्तकः स तु ॥ पर्याप्तिश्वाहारपरिणामादिशक्तिकारणनिष्पत्तिरुच्यते । श्लोकः आहारपरिणामादिशक्तिकारणसिद्धयः। पर्याप्तयः षडाहारदेहाक्षोच्छ्वासवामनः॥ इमे च जीवसमासाश्चतुर्दश समणा अमणा णेया पंचेदिय णिम्मणा परे सव्वे । बादरसुहुमेहंदी सव्वे पज्जत्त इदरा य ॥ तथा गुणस्थानैर्मार्गणाभिश्च विस्तरेणागमतो जीवानिश्चित्य रक्षेत् । गुणस्थानानि यथा मिथ्याक सासनो मिश्रोऽसंयतोऽणुव्रतस्ततः। सप्रमादेतराऽपूर्वानिवृत्तिकरणास्तथा। सूक्ष्मलोभोपशान्ताख्यौ निर्मोहो योग्ययोगिनौ । गुणाश्चतुर्दशेत्येते मुक्ता मुक्तगुणाः परे ॥ मार्गणा यथा गतयः करणं कायो योगो वेदः क्रुधादयः। वेदनं संयमो दृष्टिलेश्या भव्यः सुदर्शनम् ॥ संज्ञी चाहारकः प्रोक्तास्ताश्चतुर्दश मार्गणाः। मिथ्यागादयो जीवा मार्गणासु सदादिभिः॥ परमार्थतः प्रमत्तयोग एव हिंसेत्युपदिशति रागाद्यसङ्गतःप्राणव्यपरोपेप्यहिंसकः । स्यात्तदव्यपरोपेपि हिंस्रो रागादिसंश्रितः ॥ २३ ॥ रागादिभी-रागद्वेषमोहैरसङ्गतोऽपरिणतोऽहिंसको भवेत् । क सति ? प्राणव्यपरोपेपि । प्राणानामायुरादीनां व्यपरोपे वियोगकरणे । किं पुनरव्यपरोपे इत्यपिशब्दार्थः । रागादिसंगतस्तु हिंस्रो हिंसनशीलः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy