________________
चतुर्थोऽध्यायः।
२०३
तत्रान्त्या द्वयेपि संयतै रक्ष्याः । तदेहाकारा यथा
समानास्ते मसूराम्भोबिन्दुसूचीव्रजध्वजैः। धराम्भोग्निमरुत्कायाः क्रमाच्चित्तास्तरुत्रसाः॥ संसारिणः पुनर्द्वधा प्रतिष्ठितेतरभेदात् । तद्यथा । प्रत्येककायिका देवाः श्वाभ्राः केवलिनोईयम् । आहारकधरातोयपावकानिलकायिकाः॥ निगोतैर्बादरैः सूक्ष्मैरेते सन्त्यप्रतिष्ठिताः।
पञ्चाक्षा विकला वृक्षा जीवाः शेषाः प्रतिष्ठिताः॥ तेषां च पूर्णापूर्णानां प्राणसंख्या यथा
सर्वेष्वङ्गेन्द्रियायूंषि पूर्णेष्वानः शरीरिषु । वाग् द्विव्यादिहृषीकेषु मनः पूर्णेषु संक्षिषु ॥ ते संज्ञिनि दशैकैको हीनोन्येवंत्ययोर्द्वयं ।
अपर्याप्तेषु सप्ताद्योरेकैकोन्येषु हीयते ॥ संज्ञिनः पर्याप्तस्य स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं मानोवाक्कायबलानि बीण्यायुरुच्छ्वासश्चेति दश । असंज्ञिनो मनोवा नव । चतुरिन्द्रियस्य मनःश्रोत्रवी अष्टौ । त्रीन्द्रियस्य ते चक्षुर्वर्जाः सप्त । द्वीन्द्रियस्य ते घ्राणवाः षट् । एकेन्द्रियस्य ते रसनवाग्बलाभ्यां विना चत्वारः। तथा संज्ञिनोऽसंज्ञिनश्चापर्याप्तस्य मनोवागुच्छ्वासवास्ते सप्त । चतुरिन्द्रियस्य श्रोत्रवाः षट् । त्रीन्द्रियस्य ते चक्षुर्वाः पञ्च । द्वीन्द्रियस्य ते घ्राणं विना चत्वारः । एकेन्द्रियस्य ते रसनं विना त्रयः । पर्याप्तापर्याप्तलक्षणं यथा
गृहवस्त्रादिकं द्रव्यं पूर्णापूर्ण यथा भवेत् । पूर्णेतरास्तथा जीवाः पर्याप्तेतरनामतः॥ आहाराङ्गेन्द्रियप्राणवाचः पर्याप्तयो मनः। चतस्रः पञ्च षट् चैकद्वयक्षादौ संशिनां च ताः ॥ पर्याप्ताख्योदयाजीवः स्वस्वपर्याप्तिनिष्ठितः। वपुर्यावदपर्याप्तं तावनिर्वृत्त्यपूर्णकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org