________________
२०२
अनगारधर्मामृते
जीवत्वं चैषामागमतः सर्वत्वगपहरणे मरणादाहारादिसंज्ञास्तित्वाच्च निश्चेयम् । ते युदकादिना शाद्वला भवन्ति । स्पृष्टाश्च लजिकादयः संकुचन्ति । वनितागण्डूषादिना बकुलादयो हर्षविकासादिकं कुर्वन्ति । निधाना. दिकं दिशि पादादिकं च प्रसारयन्ति । इति क्रमेणाहारभयमैथुनपरिग्रहसं. ज्ञावन्तः किल वृक्षाः स्युः । निगोत (द) लक्षणं यथा
साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं भणियं ॥ जत्थेक्कु मरदि जीवो तत्थ दु मरणं हवे अणंताणं । चंकमइ जत्थ इक्को चंकमणं तत्थऽणंताणं ॥ चंकमइ चङ्कामति । उत्पद्यते इत्यर्थः । एकणिगोदसरीरे जीवा दव्वप्पमाणदो दिहा । सिद्धेहि अणंतगुणा सव्वेण वितीदकालेण ॥ ते च नित्येतरभेदाद्विधा । तद्यथाप्रसत्वं ये प्रपद्यन्ते कालानां त्रितयेपि नो। ज्ञेया नित्यनिगोतास्ते भूरिपापवशीकृताः॥ कालत्रयेपि यै वैस्त्रसता प्रतिपद्यते ।
सन्त्यनित्यनिगोतास्ते चतुर्गतिविहारिणः॥ तथा पृथिव्यादयः पञ्चापि साधारणाः पृथिव्यादिकायाः पृथिव्यादिकायिकाः पृथिव्यादिजीवाश्च भवन्ति । श्लोकः
क्ष्माद्याः साधारणाः मादिकाया जीवोज्झिताः श्रिताः। जीवैस्तत्कायिकाः श्रेयास्तजीवा विग्रहेतिगैः॥
१ "अस्थि अणंता जीवा जेहिं ण पत्तो तसाण परिणामो।
भावकलंकसुपउरा णिगोदवासं ण मुंचंति ॥" अत्र गोमटसारजीवकाण्डस्य कायमार्गणायामुक्तायां गाथायामस्यामेवं व्याख्यातं यदद्यपर्यन्तं यैजींवैर्व्यवहारराशिर्न लब्धा ते नित्यनिगोदाः । अग्रे ते सादिपर्यायांल्लप्रयन्ते नवेति नात्र निर्भरोयं नित्यनियमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org