________________
चतुर्थोऽध्यायः।
२०१
रणात् । दृश्यते हि शृङ्गाच्छारो गोमयाच्छालूकं बीजमन्तरेणोत्पत्तिमत् । तेन वनस्पतिजाति/जोगवा संमूर्छिमा चेति द्विधा स्थादित्युक्तं प्रतिपत्तव्यम् । अनन्तकाया अनन्तः साधारणः कायो येषां ते साधारणाङ्गाः स्त्रहीगुडूच्यादयः । अनन्तनिगोदाश्रितत्वादनंतः कायो येषां तेऽनन्तकाया: मूलकादयः प्रतिष्ठिताङ्गाः प्रत्येकभेदाः । उक्तं च
एकमपि प्रजिघांसुनिहन्त्यनन्तान्यतस्ततोऽवश्यम् ।
करणीयमशेषाणां परिहरणमनन्तकायानाम् ॥ प्रत्येककायिका एकमेकं प्रति प्रत्येकं पृथग्भिन्नो भिन्नः कायो येषामस्ति ते पूगनालिकेरादयः । उक्तं च
एकमेकस्य यस्याङ्गं प्रत्येकाङ्गः स कथ्यते । साधारणः स यस्यांगमपरैर्बहुभिः समम् ॥ मूलोत्थादयोऽनन्तकायाः प्रत्येककायाश्च भवन्ति प्रतिष्ठितेतराङ्गत्वात् । तथा संमूर्छिमा अपीति योज्यम् । त्वगित्यादि । संमूर्छिमवनस्पतिजातिस्त्ररूपप्रतिपादनार्थमिदमुभयावयवख्यापनार्थ वा । त्वक् छल्ली । प्रसवः पुष्पम् । गुच्छ एककालीनबहुसमूहो जातिमल्लिकादिः । गुल्मः कन्थारिकाकरमार्दकादिसंघातः । किंच, पुष्पमन्तरेण यस्योत्पत्तिः फलानां स फल इत्यु च्यते यस्य पुष्पाण्येव भवन्ति न फलानि स पुष्प इत्युच्यते । यस्य पत्राण्येव भवन्ति न पुष्पाणि न फलानि स पत्र इत्युच्यते । इत्यादि बोध्यम् । शैवलमुदकगतकायिका हरितवर्णाः। पणकः सार्दृष्टकभूमिकुड्योद्भवकालिको। किण्वं वर्षाकालोद्भवच्छत्राणि । कवकः शृङ्गोद्भवाङ्कुरा जटाकाराः । कुहण आहारकञ्जिकादिगतपुष्पिका । बादराः स्थूलाः पृथ्वीकायिकादयः पञ्चाप्येते पूर्वोक्ताः । सूक्ष्मकायाः सर्वेपि पृथिव्यादिभेदा वनस्पतिभेदाश्चाङ्गुलासंख्यातभागशरीरोदयः । गूढान्यदृश्यमानानि । समभङ्गं त्वचारहितम् । अहीरुकं सूत्राकारादिवर्जितं मञ्जिष्टादिकम् । छिन्नोद्भवं छिन्नेन-च्छेदेनोनवति रोहति उपलक्षणाद्भिन्नरोहि च । सामान्यं साधारणं वल्लीत्यादि। प्रत्येकशरीरं किंभूतमिति पृष्टे सत्युत्तरमिदम्-वृक्षाः पुष्पफलोपगाः वनस्पतिः फलवान् । हरिताङ्गिनः प्रत्येकाङ्गाः साधारणाझाः सर्वेपि हरितकाया इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org