________________
अनगारधर्मामृते
धूमाकारजलं कुहूडरूपं, धूमरीत्यर्थः । बिन्दुः स्थूलबिन्दुजलम् । शीकरः सूक्ष्मबिन्दुजलम् । शुद्धं चन्द्रकान्तजलं सद्यः पतितजलं वा । घनोदकं समुद्र इंदघनवाताद्युद्भवम् । चशब्देन वापीनिर्झरादिजलं करकाश्च गृह्यन्ते । ज्वालाङ्गारस्तथार्चिश्च मुर्मुरः शुद्ध एव च ।
अनलश्चापि ते तेजोजीवा रक्ष्यास्तथैव च ॥
२००
अर्चिः प्रदीपशिखाद्यग्रम् । मुर्मुरः कारीषोभिः । शुद्धो वज्रविद्युत्सूर्यकान्ताद्युद्भवोनिः सद्यः पातितो वा । अनलः सामान्योग्निर्धूमादिसहितः । चशउदेन स्फुलिङ्गवाडवाग्निनन्दीश्वरधूमकुण्डिकामुकुटानलादयो गृह्यन्ते ।
वात उद्भूमकश्चान्य उत्कलिर्मण्डलिस्तथा । महान् घनस्तनुर्गुआस्ते पाल्याः पवनाङ्गिनः ॥
वातः सामान्यरूपः । उद्रमो यो भ्रमनूर्ध्वं गच्छति । उत्कलिर्लहरी वातः । मण्डलियः पृथिवीलग्नो भ्रमन्गच्छति । महान् महावातो वृक्षादिमोदकः । घनो घनोदधिर्धन निलयः । तनुस्तनुवातो व्यजनादिकृतः । गुञ्जा उदरस्थाः पञ्चवाताः । लोकप्रच्छादकभवन विमानाधारादिवाता अत्रैवान्तर्भवन्ति । मूलाग्रपर्वकन्दोत्थाः स्कन्धबीजसमुद्भवाः । सम्मूर्छिमास्तथानन्तकायाः प्रत्येककायिकाः ॥ त्वग्मूलकन्दपत्राणि प्रवालः प्रसवः फलम् । स्कन्धो गुच्छस्तथा गुल्मस्तृणं वल्ली च पर्व च ॥ शैवलं पणकः किण्वं कवकः कुहणस्तथा । बादराः सूक्ष्मकायास्तु जलस्थलनभोगताः ॥ गूढसन्धिशिरापर्व समभङ्गमहीरुकम् | छिन्नोद्भवं च सामान्यं प्रत्येकमितरद्वपुः ॥ वल्लीवृक्षतृणाद्यं स्यादेकाक्षं च वनस्पतिः । परिहार्या भवन्त्येते यतिना हरिताङ्गिनः ॥
मूलोत्थास्ते येषां मूलं प्रादुर्भवति । ते च हरिद्रार्द्धकादयः । अग्रोत्थाः कोरण्टक मल्लिकाकुब्जकादयः । पर्वोत्था इक्षुवेत्रादयः । कन्दोत्थाः कन्दलीपण्डालुकादयः । स्कन्धोद्भवाः सल्लकीपारिभद्रकादयः । बीजोद्भवा यवगोधूमकादयः । संमूर्छिमास्ते मूलाद्यभावेपि येषां जन्म स्वयोग्यपुद्गलोपादानका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org