________________
चतुर्थोऽध्यायः ।
सकलेतरविरत्योः स्वामिनौ निर्दिशति—
स्फुरद्बोधो गलद्वृत्तमोहो विषयनिःस्पृहः । हिंसादेर्विरतः कात्स्यद्यतिः स्याच्छ्रावकोंशतः ॥२१॥
१९७
स्फुरद्बोधत्वादित्रय विशिष्टो जीवः कात्स्यत्साकल्यतो हिंसादेः पापकर्मपञ्चकाद्विरतः स्यात् । स च यतिरिति संकेतितः । तथा तत्त्रयविशिष्टो जीवोंशत एकदेशतो हिंसादेर्विरतः स्यात् । स च श्रावक इति संज्ञितः । स्फुरन् हेयोपादेयोपेक्षणीयत्वेन जीवादिषु जाग्रद्बोधो ज्ञानं यस्य स स्फुरद्बोधः । गलन् क्षयोपशमरूपतया हीयमानो वृत्तमोहो यतेः प्रत्याख्यानावरणकोधादिलक्षणश्चारित्रमोहः श्रावकस्य वाऽप्रत्याख्यानावरणक्रोधादिलक्षणश्चारित्रमोहो यस्य स गलद्वृत्तमोहः । सामायिकच्छेदोपस्थापनयोः संयमासंयमस्य च विवक्षितत्वात् तत्रयस्यैवान्रत्येदानीन्तनजीवेषु संभवात् । विषयेषु दृष्टश्रुतानुभूतेषु भोगोपभोगेषु निःस्पृहो निरीहो विषय निःस्पृहः ।
अथ चतुर्दशभिः पद्यैरहिंसाव्रतं व्याचष्टे । तत्र तावद्धिंसालक्षणमाहसा हिंसा व्यपरोप्यन्ते यत् सस्थावराङ्गिनाम् । प्रमत्तयोगतः प्राणा द्रव्यभावस्वभावकाः ॥ २२ ॥
Jain Education International
सा हिंसा भण्यते । यत्किम् ? यद् व्यपरोप्यन्ते यथासंभवं वियोज्यन्ते पुरुषैः । के ? प्राणाः । किंविशिष्टाः ? द्रव्यभाव स्वभावकाः । द्रव्यं च भावश्च द्रव्यभावौ । तौ स्वभावौ येषां ते एवम् । द्रव्यरूपा भावरूपाचेत्यर्थः । केषाम् ? सस्थावराङ्गिनाम् । श्रसनामकर्मोदयवशीकृतानसाः । स्थावरनामकर्मोदयवशवर्तिनः स्थावराः । अङ्गानि शरीराण्येषां सन्तीत्यङ्गिनः । त्रसाश्च स्थावराश्च त्रसस्थावराः । ते च तेङ्गिनश्चेति विग्रहः । कस्मात् ? प्रमत्तयोगतः । इन्द्रियप्रचारमनवधार्य प्रवर्तते यः स प्रमत्तः । प्रमत्तकषायोदया विशिष्टो हिंसादिकारणेषु स्थितोऽहिंसायां शाख्येन यतते यः स वा प्रमत्तः । राजचौरभक्तस्त्रीकथाचतुष्टयं पञ्चेन्द्रियाणि निद्राप्रणयावेतैः परिणतो वा प्रमत्तः । तस्य प्रमत्तजीवस्य कायवाङ्मनः कर्मरूपो योगः श्रमत्तयोगस्तस्मात् । तमाश्रित्येत्यर्थः । अथवा प्रमादः सकषायत्वम् ।
For Private & Personal Use Only
www.jainelibrary.org