________________
१९६
अनगारधर्मामृते
निष्पद्यते । किं तत् ? इष्टं प्रकृतत्वात्सुचरितमूलभूतं दयाख्यं वस्तु । केन ? अविनंतः प्रत्यूहरहितत्वेन । किं तत्सद्रतमित्याह
हिंसाऽनृतचुराऽब्रह्मग्रन्थेभ्यो विरतिव्रतम् ।
तत्सत्सज्ज्ञानपूर्वत्वात् सदृशश्चोपबृंहणात् ॥ १९॥ भवति । किं तत् ? व्रतम् । किम् ? विरतिर्मनोवाकायकृतकारितानुमतैर्विवृत्तिः । केभ्यः ? हिंसादिभ्यः । प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा असदभिधानमनृतम् । चुरा चौर्यम्-अदत्ताऽऽदानं स्तेयम् । मैथुनमब्रह्म। ग्रन्थो-मूर्छा परिग्रहः। हिंसा चानृतं च चुरा चाब्रह्म च ग्रन्थश्च त एवम् । तत्र सर्वजीवविषयमहिंसाव्रतम् । अदत्तपरिग्रह त्यागौ सर्वद्रव्यविषयौ द्रव्यैकदेशविषयाणि चानृतमैथुनविरतिव्रते रात्रिभोजनविरमणं षष्ठमणुव्रतं च । उक्तं च
पढमझि सव्यजीवा तिदीये चरिमेय सव्वदव्वाणि।
सेसा महब्वदा खलु तदेकदेसलि दवाणं ॥ तत्तु व्रतं सत् प्रशस्तं भण्यते । कस्मात् ? सज्ज्ञानपूर्वत्वात्। सज्ज्ञानं समीचीनो बोधः पूर्व कारणं यस्य तत् सज्ज्ञानपूर्वम् । तस्य भावस्तत्वं, तस्मात् । न केवलं, सदृशः सम्यक्त्वस्योपबृंहणाञ्चाभिवर्धनात् ।। व्रतमहिमानं वर्णयति
अहो व्रतस्य माहात्म्यं यन्मुखं प्रेक्षतेतराम् । उद्योतेतिशयाधाने फलसंसाधने च दृक् ॥२०॥ अहो आश्चर्य, माहात्म्यं व्रतस्य वर्तते, यन्मुखं यस्य व्रतस्य मुखं लक्षणया प्रधानं सामर्थ्य प्रेक्षतेतराम अतिशयेनापेक्षते। कासौ ? हक सम्यक्त्वम् । क? उद्योते शङ्कादिमलापनयने । तथातिशयाधाने कर्मक्षपणलक्षणशक्त्युत्कर्षसंपादने । तथा फलसंसाधने इन्द्रादिपदप्रापणपूर्वकनिर्वाणलक्षणस्य नानाविधापायनिवारणलक्षणस्य च फलस्य साक्षादुत्पादने । एतेन संक्षेपतः सम्यक्त्वचारित्रे द्वे एवाराध्ये सम्यक्चारित्रमेकमेवेत्युक्तं भवति । प्रेक्षतेतरामित्यत्र ज्ञानापेक्षया तरांप्रत्यय, उद्योतादिषु साध्येषु ज्ञानमुखस्यापि सम्यक्त्वेनापेक्षणीयत्वात् ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org