________________
चतुर्थोऽध्यायः।
रादीनामन्यतमेनाऽक्षेण स्वार्थरसिकेन स्व विषयलम्पटेन सता विचारसंपदः सकाशात् प्रज्ञा पुंसो यथावदर्थग्रहणशक्तिर्विकृष्यते दूरीक्रियते । प्रच्याव्यते इत्यर्थः । किंत्वनुकम्पाजीवितादपि । किंवत् ? ठकवत् खारपटेन तुल्यम् । अयमों-येन तेनापि ब्राह्मणादीनामन्यतमेन ठकेन निजप्रयोजनकामेन सता प्रजानातीति प्रज्ञा अतिविदग्धा स्त्री संपदो भूषणादि. श्रियो जीविताच विच्छिचते तथा यथोक्तेनेन्द्रियेण प्रज्ञा विशिष्टा बुद्धिर्विचाराद्युक्तायुक्तविवेचनात् करुणापरिणामाच्च प्रच्याव्यते मिथ्यात्वं नीयते इत्यर्थः । ततो मुमुक्षुणा सदेन्द्रियजये यतितव्यमिति विधौ वाक्यार्थः पर्यवस्यति ॥ विषयिणोऽपायं दर्शयति
विषयाभिषलाम्पव्यात्तन्वनृजु नृशंसताम् ।
लालामिवोर्णनाभोऽधः पतत्यहह दुर्मतिः ॥ १७ ॥ अहहेति खेदे । हा कष्टमित्यर्थः। दुर्मतिर्विषयाभिलाषदूषितधिषणः पुरुषः पतति । क ? अधोऽधरदिशि । नरकादिगतावित्यर्थः । किं कुर्वन् ? तन्वन् विस्तारयन् । काम् ? नृशंसतां हिंसकताम् । कस्मात् ? विषयामिषलाम्पट्यादिष्टार्थग्रासलौल्यात् । कथं कृत्वा ? ऋजु सम्मुखम् । क इव काम् ? लालाम्रर्णनाभ इव । अयमों- यथा लूताकीटस्तन्तुरूपां लालामामिषलाम्पट्यात् प्राणिलक्षणग्रासरसिकत्वेनर्जु प्राञ्जलं कृत्वा तन्वन् दीर्घाकुर्वन्नधोऽधरदेशे पतत्येवं प्राकरणिकोपि । विषयनिस्पृहस्पेष्टसिद्धिमाचष्टे
यथाकथंचिदेकैव विषयाशापिशाचिका।
क्षिप्यते चेत्प्रलप्यालं सिध्यतीष्टमविघ्नतः॥ १८॥ प्रलप्यालमलं प्रलपनेन । अनर्थकं न वक्तव्यमित्यर्थः । चेद्यदि क्षिप्यते निराक्रियते श्रेयोर्थिना । कासौ ? विषयाशापिशाचिका इष्टेन्द्रियार्थलिप्सा पिशाचीव । किंविशिष्टा ? एकैव केवलैव । कथम् ? यथाकथंचित् येन केनापि ज्ञानवैराग्यादिभावनाप्रकारेण । तदा सिध्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org