________________
wwwwwwwwwww
१९४
अनगारधर्मामृतेmai..wwwwwwwwwwwwwwwwww.r
असङ्गो यतिस्तत्त्वज्ञानच्छिन्नरम्येतरार्थप्रीतिद्वेषो भूत्वा प्राणिरक्षामृगाक्षीमालिङ्गय क्रोडीकृत्य अलं पर्याप्तं भावयन्गुणानुस्मरणद्वारेण पुनः पुनश्चेतसि निवेशयन् निस्तरङ्गस्वान्तो निर्विकल्पमनाः सन् सान्द्रानन्दं निबिडप्रमोदमङ्गति गच्छति । रमयतीति रम्यो मनःप्रियोर्थ इतरोऽरम्यः । अर्थो विषयः। रम्यश्चेतरश्च रम्येतरौ । तौ च तावौँ च रम्येतरार्थो । प्रीती रागो द्वेषोऽप्रीतिः। प्रीतिश्च द्वेषश्च प्रीतिद्वेषौ । रम्येतराथेयोः प्रीतिद्वेषौ रम्येतरार्थप्रीतिद्वेषौ । तत्त्वज्ञानेन यथावदर्थावगमेनच्छिन्नौ निराकृतौ रम्येतरार्थप्रीति द्वेषौ येन स एवम् । प्राणिनां रक्षा दुःखनिराकरणबुद्धिः प्राणिरक्षा दया । मृगस्येवाक्षिणी यस्याः सा मृगाक्षी कामिनी । प्राणिरक्षा मृगाक्षीव, सर्वाङ्गीणसुखावहसङ्गत्वात् । तरङ्गा ऊर्मयः। तरङ्गा इव तरङ्गाः क्षणिकत्वाद्, विकल्पाः । तरङ्गेभ्यो निष्क्रान्तं निस्तरङ्गं खान्तं मनो यस्य स तथोक्तः। न विद्यन्ते सङ्गाश्वेतनेतरपरिग्रहा यस्यासा. वसङ्गः शक्यत्यागानां त्यागी अशक्यत्यागेषु ममत्वत्यागीत्यर्थः ॥ दयारक्षार्थ विषयत्यागमुपदिशति
सद्वत्तकन्दली काम्यामुद्भेदयितुमुद्यतः ।
यैश्छिद्यते दयाकन्दस्तेऽपोह्या विषयाखवः ॥१५॥ ते विषयाखवो मुमुक्षुभिरपोह्याः प्रतिषेध्याः । विषयाश्चक्षुरादिमुखैरिष्टानिष्टतया निरूप्यमाणा रूपादयोः । ते आखवो मूषिका इव कन्दस्येव दयापाश्छेदकत्वात् । ते के ? यैश्छिद्यते निळूत्यते । कोसौ? दयाकन्दः। किंविशिष्टः ? उद्यत उद्युक्तः । किं कर्तुम् ? उद्भेदयितुमाविर्भावयितुम् । काम् ? सवृत्तकन्दलीम् । सद्वृत्तं सम्यक्चारित्रं कन्दली कन्दकिशलयमुकुलस्तोम इव, कन्दस्येव दयायाः कार्यत्वात् । किं विशिष्टाम् ? काम्यां तस्फलार्थिभिः स्पृहणीयाम् ॥ इन्द्रियाणां प्रज्ञापघातनसामर्थ्य कथयतिस्वार्थरसिकेन ठकवद्विकृष्यतेऽक्षेण येन तेनापि । न विचारसंपदः परमनुकम्पाजीवितादपि प्रज्ञा ॥ १६ ॥ न परं न केवलं येन तेनापि स्वनिमित्तसन्निधानालब्धबलेन चक्षु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org