________________
चतुर्थोऽध्यायः।
१९३
निर्दयस्यान्यकृतोपि दोषः संपद्यते इत्याह
अन्येनापि कृतो दोषो निस्त्रिंशमुपतिष्ठते ।
तटस्थमप्यरिष्टेन राहुमर्कोपरागवत ॥१२॥ उपतिष्ठते संक्रामति । अनेन कृतोयमिति लगतीत्यर्थः । कोसौ ? दोषः । कम् ? निस्त्रिंशं निर्दयम् । किंविशिष्टमपि ? तटस्थं निकटमुदासीनं वा । अपिर्विसये । किंविशिष्टो दोषः ? कृतः । केन ? अन्येनापि मदप्रमादादिवशेन केनापि निस्त्रिंशेन । किंवत् ? अर्कोपरागवत् । यथाऊपरागः सूर्यग्रहणमरिष्टेनादित्यच्छादकग्रह विशेषेण कृतः समानमण्डलव. र्तित्वात्तटस्थं राहुं चन्द्रच्छादकग्रह विशेषमुपतिष्ठते तथा प्रकृतोपि । तथा चागमः
राहुस्स अरिहस्स य किंचूणं जोयणं अधोगता। छम्मासे पवंते चंदरविं छादयन्ति कमा ॥ तथा,
राहुअरिट्टविमाणद्धयादुवरि पमाणअंगुलचउकं । गंतूण ससिविमाणा सूरविमाणा कमे होंति ॥ सकृदप्यपकृतोपकर्तारमसकृदपकरोतीति दृष्टान्तेन स्फुटयति
विराधकं हन्त्यसकृद्विराद्धः सकृदप्यलम् ।
क्रोधसंस्कारतः पार्श्वकमठोदाहतिः स्फुटम् ॥ १३ ॥ सकृदप्येकवारमपि विराद्धः कृतापकारो जीवो विराधकमपकर्तारं जीवमसकृदनेकवारं हन्ति हिनस्ति । कस्मात् ? अलं पर्याप्तादनन्तानुबन्धिनः क्रोधसंस्कारतोऽनन्तानुबन्धिक्रोधवासनावशादित्यर्थः । कथं कृत्वा ? पार्श्वेत्यादि । पार्श्वस्त्रयोविंशस्तीर्थकरः । कमठस्तस्यैव मरुभूतिभवभावी ज्येष्ठभ्राता । पार्श्वश्च कमठश्च पार्श्वकमठौ । तावेवोदाहृतिरुदाहरणम् । तत्र तया वा स्फुटं स्पष्टप्रतीतिकम् ।। _दयाभावनापरस्य प्रीतिविशेष फलत्वेनोपदिशतितत्त्वज्ञानच्छिन्नरम्येतरार्थप्रीतिद्वेषः प्राणिरक्षामृगाक्षीम् । आलिङ्गयालं भावयनिस्तरङ्गस्वान्तः सान्द्रानन्दमङ्गत्यसङ्गः१४
अन० ध०१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org