________________
१९२
अनगारधर्मामृते
भोः सिच्यर्थिन्, मनश्चित्तं ते दयानुविद्धं कृपाभावितं चेदस्ति तदा सिद्धये सिद्धयर्थ मुधा विफलं क्लिश्नासि अनशनादिनाऽऽत्मनः क्लेशं करोषि त्वं, दयाभावेनैकसाध्यत्वात्सिद्धेः । अथ चेदस्ति मनः । कीदृशम् ? दयापविद्धं दयामुक्तं तदा मुधा क्लिश्नासि सिद्धये, निर्दयस्य केनापि कायक्लेशादिना तस्याः साधयितुमशक्यत्वात् ।
विश्वासत्रासयोः सकृपत्वनिष्कृपत्वमूलत्वमुपलक्षयतिविश्वसन्ति रिपवोपि दयालोर्वित्रसन्ति सुहृयोप्यदयाच्च । प्राणसंशयपदं हि विहाय स्वार्थमीप्सति ननु स्तनपोपि॥१०॥
दयालोर्दयापरस्य रिपवोप्यपकर्तारोपि विश्वसन्ति विश्वासं कुर्वन्ति। अदयाञ्च निर्दयात्सुहृदोप्युपकारोपि वित्रसन्ति बिभ्यति । हि यसान्नन्वहो, स्तनपोपि अविज्ञातव्यवहारो डिम्भोपि ईप्सति प्राप्तुमिच्छति । कम् ? स्वार्थ स्वेष्टं वस्तु । किं कृत्वा ? विहाय परिहृत्य । किं तत् ? प्राणसंशयपदं स्वेष्टसाधनायात्र प्रवर्तमानस्य मे प्राणाः स्थास्यन्ति न वेति संदेहस्थानम् ॥ दयार्द्रस्यारोपितोपि दोपो न दोषाय, किं तर्हि ? बहुगुणः स्यादित्याह
क्षिप्तोपि केनचिदोषो दयाई न प्ररोहति ।
तक्राइँ तृणवर्तिकतु गुणग्रामाय कल्पते ॥ ११ ॥ न प्ररोहति नोद्गच्छति । अकीर्तिदुर्गत्यादिप्रदो न भवतीत्यर्थः। कोसौ ? दोषः प्राणिवधपैशून्यचौर्यादीनामन्यतमोपवादः । क ? दया करुणामृदौ पुंसि । कीदृशोपि ? क्षिप्तोप्यारोपितोपि । केन ? केनचिदसहिष्णुना । क किमिवेत्याह-तक्रार्दै तृणवत् । यथा तकाई मथिताप्लुते प्रदेशे तृणं न प्ररोहति न प्रादुर्भवति । तथा दयार्दै दोष इत्यर्थः । यचिकित्सा
न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः। निषिक्तं तद्धि दहति भूमावपि तृणोलपम् ॥ एवं च तीसावकिंचित्करो भविष्यतीत्याशङ्कानिरासार्थमाह किंत्वित्यादि। किंतु कल्पते संपद्यते । कोसौ ? असहिष्णुनाऽऽरोपितो दोपः । कस्मै ? गुणग्रामाय । गुणा अशुभकर्मनिर्जरणशिष्टसभासाधुकारलोकसम्मतत्व. तरक्षेत्राधिष्ठातृदेवतापक्षपातादयः । तेषां ग्रामः संघातस्तस्मै ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org