SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । १९१ यस्य पुंसो जीवदया प्राणिषु मुख्येष्वारोपितेषु वा करुणा नास्ति तस्य सच्चरितं सम्यग्धर्मः कुतः स्यात्, न कुतश्चित्, दयामूलत्वात्तस्य । हि यस्मान्न भवेत् । कासौ ? कापि काचित् स्नानदेवार्चनदानाध्ययनादिका क्रिया । कीदृशी ? श्रेयस्करी श्रेयसो धर्मस्य तत्फलकल्याणस्य वा संपादयित्री । केषाम् ? भूतगुहां भूतेभ्यो दुह्यताम् । जन्तून् हन्तुमिच्छतामित्यर्थः ॥ सदय निर्दययोरन्तरमाविष्करोति दयालोरव्रतस्यापि स्वर्गतिः स्याददुर्गतिः । व्रतिनोषि दयानस्य दुर्गतिः स्याददुर्गतिः ॥ ७ ॥ स्यात् । कासौ ? स्वर्गतिः । स्वः स्वर्गे गमनम् । देवत्वप्रतिलम्भ इत्यर्थः । किं विशिष्टा ? अदुर्गतिः । दुःखेन गतिः प्राप्तिर्यस्याः सा दुर्गतिः । न दुर्गतिरदुर्गतिः । सुलभेत्यर्थः । कस्य ? दयालोर्दयाशीलस्य । किंविशिष्टस्य ? अव्रतस्यापि व्रतरहितस्यापि । तथा दुर्गतिर्नरकगतिर्नारकत्वप्रतिलम्भः स्यात् । किंविशिष्टा ? अदुर्गतिः । कस्य ? दयोनस्य दयारहितस्य । किंविशिष्टस्य ? प्रतिनोपि व्रतयुक्तस्यापि ॥ निर्दयस्य तपश्चरणादिनै फल्यकथनपुरस्सरं दयालोस्तदकर्तृत्वेपि तत्फलपुष्टिलाभं प्रकाशयति तपस्यतु चिरं तीव्रं व्रतयत्वतियच्छतु । निर्दयस्तत्फलैर्दीनः पीनश्चैकां दयां चरन् ॥ ८ ॥ निर्दयो नरश्चिरं तपस्यतु तपः करोतु, तीव्रं व्रतयतु अत्यर्थं व्रतं करोतु, अतियच्छतु अतिमात्रं ददातु च । तथाप्यसौ तत्फलैस्तथावि. धतपोव्रतदानकरणसाध्यैर्दोनो दरिद्रो रिक्तो भवति । तथा पीनश्च तत्फलैः पुष्टो भवति । कोसौ ? एकां केवलां तपश्चरणादिरहितां दयां चरन्कुर्वन् ॥ दयानृशंसयोः सिद्ध्यर्थं क्लेशवैफल्यमभिलपति मनो दयानुविद्धं चेन्मुधा किनासि सिद्धये । मनोदयापविद्धं चेन्धा विश्वासि सिद्धये ॥ ९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy