SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते समेव । कथम् ? विना । किं तत् ? सद्दर्शनम् । तथा चारित्रमप्यचारित्रं चारित्राभासमेव स्यात् । कथम् ? विना । किं तत् ? सम्यग्ज्ञा पुनरप्येतदेव समर्थयितुमाह हितं हि खस्य विज्ञाय श्रयत्यहितमुज्झति । तद्विज्ञानं पुरश्चारि चारित्रस्याघमानतः॥४॥ हि यस्मात् श्रयति सेवते मुमुक्षुः। किं तत् ? स्वस्यात्मनो हितं सदर्शनादि । किं कृत्वा ? विज्ञाय विशेषेण बुद्ध्वा । तथा स्वस्याहितं मिथ्यात्वादिकं विज्ञायोज्झति त्यजति । यत एवं तत् तस्माद्भवति । किं तत् ? विज्ञानम् । किंविशिष्टम् ? पुरश्चारि अग्रेसरम् । कस्य ? चारित्रस्य । किं कुर्वतः ? आनतो निर्मूलयतः । किं तत् ? अघं कर्म ॥ सम्यग्ज्ञानपूर्वके चारित्रे यत्नवतो जगद्विजयं कथयति देहेष्वात्ममतिर्दुःखमात्मन्यात्ममतिः सुखम् । इति नित्यं विनिश्चिन्वन् यतमानो जगज्जयेत् ॥ ५॥ जयेद्वशीकुर्यान्मुमुक्षुः । किं तत् ? जगल्लोकम् । सर्वज्ञो भवेदित्यर्थः । तस्य लोकजिच्छब्दाभिधेयत्वात् । किंकुर्वाणः ? यतमानः परद्रव्यनिवृत्तिशुद्धस्वात्मानुवृत्तिलक्षणं यत्नं कुर्वन् । कथंभूतो भवन् ? नित्यं शश्वद्विनिश्चिन्वन् विशेषेण व्यवस्थन् । कथम् ? इति । किमिति ? भवति । कासौ ? देहेषु स्वगतेष्वौदारिकादिषु त्रिषु चतुर्पु वा परगतेषु च यथासंभवत्सु आत्ममतिरात्मेति मननम् देह एवाहमहमेव वा देह इति कल्पनेति यावत् । किं भवति ? दुःखं दुःखहेतुः । तथा भवति । कासौ ? आत्ममतिरात्मेति मननम् । क ? आत्मनि अहमेवाहमन्य एवान्य इति विकल्पनेति यावत् । किं भवति ? सुखं सुखहेतुः ॥ दयेति सफलयितुमाह यस्य जीवदया नास्ति तस्य सच्चरितं कुतः। न हि भूतद्रुहां कापि क्रिया श्रेयस्करी भवेत् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy