SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । १८९ तासंपद्यस्य स एवम् । तथा शीलोद्यद्विदपः । शीलं व्रतपरिरक्षणम् । शीलमुद्यन्नव्याहतो विटपो यस्य स एवम् । तथा गुणोद्धोद्रमः । गुणाः संयमविकल्पा उद्घोद्गमानि यस्य स एवम् ॥ सम्यक्त्वज्ञानयोः संपूर्णत्वेपि सति चारित्रासंपूर्णतायां परममुक्त्यभावमावेदयति परमावगाढसुदृशा परमज्ञानोपचारसंभृतया । रक्तापि नाप्रयोगे सुचरितपितुरीशमेति मुक्तिश्रीः ॥ २ ॥ न एति न गच्छति नोपाश्रयति । कासौ ? मुक्तिश्रीः परममुक्तिः । अशरीरत्वे सत्यनन्तसम्यक्त्वादिगुणसंपदित्यर्थः । कम् ? ईशं जीवन्मुक्तम् । वसति ? अप्रयोगे सयोगत्वाघातिकर्मतीव्रोदयत्व स्वरूपाती चारसद्भावादसंपूर्णत्वेऽसंप्रदाने च । कस्य ? सुचरितपितुः । सुचरितं निरवशेषमोहक्षयादाविर्भूतत्वाच्छश्वदमलवपुरात्यन्तिकं च क्षायिकं चारित्रं पितेव स्वरूपलाभवज्जीवन्मुक्तवरयितुः संप्रयोगे कुलकन्याया इव परममुक्तेरवश्यापेक्षणीयत्वात् । किंविशिष्टापि ? रक्ताप्यनुकूलितापि पक्षे उत्कण्ठितापि । क्या ? परमावगाढसुदृशा अचलकक्षायिकसम्यक्त्वेनातिचतुरदूत्या च । किंविशिष्टया ? परमेत्यादि । परमज्ञानं केवलज्ञानमुपचारः कामितवस्त्रालंकारादिसत्कार इव । तेन संभृतया परिपुष्टया । अयमर्थो - यथोपचारपूरितमनोरथया सुचतुरसंचारिकया संभोक्तुमाकुलीकृतापि कुलकन्या पितुः संप्रदानमन्तरेण कामितशृङ्गारनायिकं नाभिगच्छति तथा परमावगादसम्यक्त्वेन परमज्ञानप्रापितपरमातिशयेनावश्यप्राप्यतां नीतापि परममुक्तिरघातिकर्मनिर्जरणकारणसमुच्छिन्नक्रियानिवृत्तिपरमशुकुध्यानाप्रतिलम्भादसंपूर्णत्वे क्षायिकचारित्रस्य शान्तोदात्तनायकं नालिङ्गति । एतेन परमचारित्राराधनायाः परममुक्तेः साक्षात्कारणत्वमासूत्रितं प्रतिपत्तव्यम् ॥ सद्विद्येति समर्थयितुमाह ज्ञानमज्ञानमेव स्याद्विना सदर्शनं यथा । चारित्रमप्यचारित्रं सम्यग्ज्ञानं विना तथा ॥ ३ ॥ यथा स्यात् । किं तत् ? ज्ञानम् । कीदृशम् ? अज्ञानमेव ज्ञानाभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy