________________
अथ चतुर्थोऽध्यायः ॥ ४ ॥
अथ क्रमप्राप्तां चारित्राराधनां प्रति मुमुक्षूनुत्साहयति
सम्यग्दृष्टिसुभूमिवैभवलसद्विद्याम्बुमाघदया,मूलः सतसुप्रकाण्ड उदयद्गुप्त्यग्रशाखाभरः । शीलोद्यद्विटपः समित्युपलतासंपद्गुणोद्धोद्गम,
च्छेत्तुं जन्मपथक्लमं सुचरितच्छायातरुः श्रीयताम् ॥१॥ वैभवं प्रभावः स्वकार्यकरणसमर्थोऽचिन्त्यशक्तिविशेष इति यावत् । दया दुःखार्तजन्तुत्राणाभिलाषः । प्रकाण्डः स्कन्धः। विटपो विस्तारः । उपलता उपशाखा। उद्घोद्मानि प्रशस्तपुष्पाणि । जन्म संसारः सुचरितं सर्वसावद्ययोगविरतोस्मीत्येवंरूपं सामायिकं नाम प्रागुपादेयं सम्यक्चारित्रं, तस्यैवैदयुगीनानुद्दिश्य-छेदोपस्थापनरूपतया प्रपञ्यमानत्वात् । छायातरुयंस्था. परिवर्तनेपि-च्छाया न चलत्यसौ ॥ श्रीयतां सेव्यतामासेवितसम्यग्दर्शनज्ञानैर्मुमुक्षुभिः । कोसौ ? सुचरितच्छायातरुः। सुचरितं छायातरुरिव, संसारमार्गसंवरणसमुद्भूतश्रमग्लानिप्रशान्तिहेतुत्वात् । किं कर्तुम् ? छे. त्तुम् । कम् ? जन्मपथक्लमम् । जन्म पन्था इव । तस्य लमः । किंविशिष्टोसौ ? सम्यग्दृष्टीत्यादि । सम्यग्दृष्टिदर्शनविशुद्धिः सुभूमिः प्रशस्तभूरिव । तस्या वैभवम् । तेन लसत्स्वकार्यकरणाय स्फुरद विद्याम्बु सम्यकश्रुतज्ञानजलम् । तेन माद्यत् स्वकार्याय दृप्यद् दयामूलं यस्य स एवम् । दया मूलं बुन्न इव,प्ररोहणकारणत्वात् । तथा सहतसुप्रकाण्डः । सद्रतं सुप्रकाण्डो यस्य । तथा उदयहुप्त्यग्रशाखाभरः। सम्यग्योगनिग्रहो गुप्तिरग्रशाखा प्रधानावयवः । गुप्तयोग्रशाखा इवोपशाखादीनामिव समित्यादीनामाधारभूतत्वात् । गुप्त्यग्रशाखानां भरोतिशयो गुप्त्यग्रशाखा. भरः। उदयन्नुच्छ्रयन् गुप्त्यग्रशाखाभरो यस्य स तथोक्तः। तथा समित्युपलतासंपत् । श्रुतनिरूपितक्रमेण प्रवृत्तिः समितिः । लताः शाखाः । उपगता लता उपलताः । तासां संपत संपत्तिरुपलतासंपत् । समितय उपल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org