SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। १८७ ततश्च कैवल्यात् परा परमा अच्युतिर्मुक्तिः स्यात् । क ? अन्ते नाशेऽर्थात् संसारस्य । संसाराभावे पुंसः स्वात्मलामो मोक्ष इति वचनात् । अथवाऽन्ते मरणे पण्डितपण्डितमरणप्राप्यत्वानिर्वाणत्य। अयमर्थ:--स्वाध्यायायं. ध्यानं संपद्यते । ततः पृथक्त्ववितर्कवीचारं शुमानम् । तलादेवत्ववितकौवीचारं द्वितीयं शुक्लध्यानम् । ततोनन्तज्ञानादिचतुष्टय लक्षणा जीवन्मुक्तिः । ततश्च क्रमप्रवृत्तसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तिलक्षणशुक्लध्यानद्वयातिशयः स्यात् । ततश्च सर्वकर्मक्षयाविभूतानन्तसम्यक्त्वादिगुणाष्टकावस्थानलक्षणा परममुक्तिः । इति भद्रम् ॥ २४ ॥ (ग्रंथप्रमाणं ३१८) यो धर्मामृतमुद्दधार सुमनस्तृप्त्यै जिनेंद्रागमक्षीरोदं शिवधीनिमथ्य जयतात् स श्रीमदाशाधरः । भव्यात्मा हरदेव इत्यभिधया ख्यातश्व नंद्यादिम टीकाशुक्तिमचीकरत्सुखमिमां तस्योपयोगाय यः॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतानगारधर्मटीकायां भव्यकुमुदचन्द्रिकासंज्ञायां ज्ञानाराधनाधिगमो नाम तृतीयोऽध्यायः॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy