________________
१८६
अनगारधर्मामृते
नाभून्नास्ति नवा भविष्यति तपःस्कन्धे तपो यत्सम, कर्मान्यो भवकोटिभिः क्षिपति यद्योन्तर्मुहूर्तेन तत् । शुद्धि वानशनादितोऽमितगुणां येनाश्रुतेश्नन्नपि, स्वाध्यायः सततं क्रियेत स मृतावाराधनासिद्धये ॥२३॥ स यथोक्तातिशयः स्वाध्यायः सततं क्रियेत नित्यं विधीयेत मुमु. क्षुभिः । कस्यै ? मृतौ मरणक्षणे आराधनासिद्धये । उपजातसम्यग्दर्शनादिपरिणामस्य तद्गतातिशयवृत्तिराराधना तस्याः संप्राप्त्यर्थम् । यतो यत्समं येन स्वाध्येन तुल्यं नाभून भूतं, नास्ति न विद्यते, न वा भविष्यति नैव संपत्स्यते । किं तत् ? तपः । क मध्ये ? तपःस्कन्धे । तपसां षण्णां बाह्यानामनशनादीनां पञ्चानां चाभ्यन्तराणां प्रायश्चित्तादीनां स्कन्धः समूहस्तपःस्कन्धस्तस्मिन् । तथा यः स्वाध्यायस्तत्कर्म पापमन्तमुहूर्तेन किंचिदूनघटिकाद्वयेन क्षिपति निराकरोति । यत्कर्म अन्यस्तपोनिधिर्भवकोटिभिर्जन्मलक्षशतैः क्षिपति । तथा येन स्वाध्यायेनाचते प्राप्नोति मुमुक्षुः । काम् ? शुद्धिं विशुद्धिपरिणामम् । कियतीम् ? अमित. गुणामनन्तगुणाम् । केभ्यः ? अनशनादितोऽनशनादितपोभ्यः । किं कुर्वन्नपि ? अश्नन्नपि दिने दिने भोजनं कुर्वन् । किं पुनरुपवासादिकं यथाशक्ति कुर्वन्नित्यपिशब्दार्थः । श्रुतज्ञानाराधनायाः पारम्पर्येण मुक्तिहेतुत्वमाह
श्रुतभावनया हि स्यात् पृथक्त्वैकत्वलक्षणम् ।
शुक्लं ततश्च कैवल्यं ततश्चान्ते पराच्युतिः ॥२४॥ हि यस्मात् स्यात् संपद्येत। किंतत् ? शुक्लं शुक्लध्यानम् । किंविशिष्टम् ! पृथक्त्वैकत्वलक्षणं पृथक्त्वं च पृथक्त्ववितर्कवीचाराख्यमेकत्वं चैकत्ववितर्कावीचाराख्यं पृथक्त्वैकत्वे । ते एव लक्षणे स्वरूपे यस्य तत्तथोक्तम् । कया ? श्रुतभावनया नियंप्रज्ञानापेक्षया स्वाध्यायेनैकाग्रज्ञानापेक्षया धर्मध्यानेन च । ततश्च तस्माद्धेतुहेतुमद्भावेन प्रवृत्तात् पृथक्त्वैकत्वलक्षणा. च्छुक्लध्यानद्वयात्कैवल्यं स्यात् । केवलमेव कैवल्यमसहायज्ञानदर्शनपर्यायः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org