________________
तृतीयोऽध्यायः।
१८५
नयवद् दुर्णयपुरुषवत् । किं कृत्वा ? व्यावर्त्य निवर्त्य । कस्मात् ? अशुभवृत्तितः प्रमादचर्याकालुष्यविषयलौल्यादिव्यापारात् । यत्किम् ? यश्चित्तं नो शक्यते न पार्यते । किं कर्तुम् ? लातुं ग्रहीतुम् ? किंवत् ? वीलनमत्स्यवद् मसृणतरदेहमत्स्य इव । तथा यन्न शक्यते । किं कर्तुम् ? गमयितुं प्रवर्तयितुम् । क ? मार्गे इष्टपथप्राप्त्युपाये। किंवत् ? विदुष्टाश्ववद् दुःशीलघोटको यथा। तथा यन्न शक्यते। किं कर्तुम् ? रोर्बु निवारयितुम् । कस्मात् ? वाञ्छितादिष्टार्थात् । क इव कस्मादित्याहनिम्नानीचदेशादगापगौघ इव पर्वतनदीपूरो यथा। नीचदेशाभिमुखगिरिनदीपूरवदिष्टार्थमभिमुखं चित्तं व्यावर्तयितुं केनापि न शक्यते इत्यर्थः । तथा यहरं याति विप्रकृष्टदेशं गच्छति । किंविशिष्टं सत् ? अनिवारणमशक्यप्रतिषेधम् । किंवत् ? अणुवत् परमाणुयथा । तथा यदभितः समन्ताद् द्राक् शीघ्रं याति । किंवत्? वायुवत् पवनो यथा। तथा यदाशु शीघ्रं बहुविधैर्नानाप्रकारैर्विकल्पैश्चिन्ताविवतैर्जगद्भुवनं भृत्त्वा पूरयित्वा नश्यति विलीयते । किंवत् ? अब्दवद् मेधैस्तुल्यम् । यथा मेवसंघातो नानासंस्थानवर्णपरिमाणैर्विकल्पैर्भेदैर्जगत्वा शीघ्रं नश्यति तथा प्रकृत. मपीत्यर्थः ।
किंच, तथा यच्चित्तं रागातुरमिष्टविषयरत्याक्रान्तं सन्नो वदति न ब्रूते । किं तत् ? तत्त्वं वस्तुयाथात्म्यम् । किंवत् ? मूकवद् वाग्विकल. पुंवत् । तथा यन्नेक्षते न पश्यति रागातुरं सत् । किंतत् ? तत्त्वम् । किंवत् ? अन्धवद् दृष्टिविकलपुंवत् । तथा यदागातुरं सत्तत्त्वं न शृणोति नाकर्णयति । किंवत् ? बधिरवत् श्रुतिविकलपुंवत् । तथा यत्र चित्ते अयतेऽनियंत्रिते सति अवितथं सत्यं वृत्तं चारित्रं क्षिप्रं शीघ्रं क्षरति स्रवति । कस्मात् ? यतवचोघपुषोपि नियन्त्रितवाकायादपि पुरुषात् । कमादिव किमित्याह-तितओरिवाम्भश्वालनीतो जलं यथा। उक्तं च
तितओरिव पानीयं चारित्रं चलचेतसः।
वचसा वपुषा सम्यकुर्वतोपि पलायते ॥ ततो व्यावयेत्यादिना संबन्धः ॥ ध्यानव समस्ततपोभ्यः स्वाध्यायस्योत्कृष्टशुद्धिहेतुतया समाधिमरणसिझ्यर्थ नित्यकर्तव्यतां दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org