________________
१८४
अनगारधर्मामृते
wwwrammm
लातुं वीलनमत्स्यवद्गमयितुं मार्गे विदुष्टांश्वव,निम्नाद्रोद्धुमगापगौघ इव यन्नो वाञ्छिताच्छक्यते । दूरं यात्यनिवारणं यदणुवद् द्राग्वायुवच्चाभितो, नश्यत्याशु यदब्दवद्बहुविधैर्भूत्वा विकल्पैर्जगत् ॥ २० ॥ नो मूकवद्वदति नान्धवदीक्षते य,द्रागातुरं बधिरवन्न शृणोति तत्त्वम् । यत्राऽयते यतवचो वपुषोपि वृत्तं, क्षिप्रं क्षरत्यवितथं तितवोरिवाम्भः ॥ २१ ॥ व्यावाशुभवृत्तितोसुनयवन्नीत्वा निगृह्य त्रपां, वश्यं स्वस्य विधाय तद्भुतकवत्प्रापय्य भावं शुभम् । स्वाध्याये विदधाति यः प्रणिहितं चित्तं भृशं दुर्धरं, चक्रेशैरपि दुर्वहं स वहते चारित्रमुच्चैः सुखम् ॥२२॥
(निकलम्) स स्वाध्याये समाहितचित्तो मुमुक्षुः सुखं वहते अनायासेन धरति । किंतत् ? उग्रुन्नतं चारित्रमशुभनिवृत्तिशुभप्रवृत्तिरूपं संयमं । व्रतसमितिगुप्तीरित्यर्थः । किंविशिष्टम् ? दुर्वहं वोढुमशक्यम् । कैः ? चक्रेशैरपि सकलचक्रवर्तिभिः किं पुनरितरित्यपिशब्दार्थः । यः किम् ? यो विद्धाति करोति । किंतत् ? तभृशं दुर्धरमत्यन्तं धर्तुमशक्यं, चित्तं मनः । किंविशिष्टम् ? प्रणिहितमेकाग्रम् । क्व ? स्वाध्याये वाचनादिलक्षणे तपसि । किं कृत्वा ? प्रापय्य नीत्वा । कम् ? भावम् । किंवि. शिष्टम् ? शुभं प्रशस्तरागादिरूपम् । किं कृत्वा ? विधाय कृत्वा । किंविशिष्टम् ? वश्यं वशवर्ति । कस्य ? स्वस्यात्मनः। किंवत् ? भृतकवत् क्रयक्रीतदासवत् । किं कृत्वा ? नीत्वा प्रापय्य । काम् ? त्रपां लज्जाम् । किं कृत्वा ? निगृह्य ज्ञानसंस्कारदण्डबलेन दमयित्वा । किंवत् ? असु.
१ हि दुष्टाश्ववदित्यपि पाठोस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org