________________
तृतीयोऽध्यायः।
१८३ -
करणे प्रवृत्तः । तथा कृततमश्छेदः । कृतस्तमसः स्वप्रतिबन्धकस्य कर्मणो ध्वान्तस्य च छेदो विध्वंसो येन स एवम् । तथा शिवश्रीपथः। शिवश्रियो मोक्षलक्ष्म्याः पन्थाः प्रायत्युपायः । पक्षे शिवानां सुक्तात्मनां श्रीपथः प्रधानमार्गः। एतच्च 'पन्थाः शिवनीजुपाम्' इत्यत्र समर्थितम् । तथा सत्त्वोद्वोधकरः सात्विकत्वाभिव्यक्तिकारी प्राणिनां निन्द्रापसारी च । तथा प्रलप्तकमलोल्लासः। प्रलक्षः प्रवर्तितः कमलायाः श्रियः, पक्षे कमलानां पङ्कजानामुल्लास उद्गतिर्विकाशश्व येन । अथवा, कस्यात्मनो मला रागादयः । तेषामुल्लास उद्भवः प्रक्लप्तः प्रकर्षेण च्छिन्नोसो येन बोधेनेति ग्राह्यम् । तथा स्फुरद्वैभवः। वैभवं त्रिजगदाधिपत्यं प्रभावविशेषश्च । स्फुरजनमनस्सु चमत्कुर्वद्वैभवं यस्य । तथा लोकालोकततप्रकाशविभवः।लोकालोको पूर्वोक्तौ लोकालोकश्च चक्रवालशैलः । तत्र ततो विस्तारितः प्रकाशविभव आलोकसंपद् येन । ज्ञानस्य साधननिस्तरणयोः प्रणुदतिनिर्मथ्यागमदुग्धाब्धिमुद्धृत्यातो महोद्यमाः।
तत्त्वज्ञानामृतं सन्तु पीत्वा सुमनसोऽमराः ॥१९॥ सन्तु भवन्तु । के ? सुमनसो मैच्यादिभावनाप्रसन्नचित्ता देवाश्च । किंविशिष्टाः सन्तु ? अमरा मृत्युरहिताः । मृत्युश्चात्र पुनर्मरणमपमृत्युश्च । किंविशिष्टाः सन्तः? महोद्यमा बृहदुत्साहाः। किं कृत्त्वा? पीत्वा उपयुज्य। किं तत् ? तत्वज्ञानामृतं परमौदासीनज्ञानपीयूषम् । किंकृत्वा ? उद्धृत्य उचित्त्य तत्वज्ञानामृतम् । कस्मात् ? अतो निर्मथितादागमदुग्धाब्धेः । किं कृत्वा ? निर्मथ्य निःशेष शब्दतोर्थतश्चाक्षेपसमाधानः क्षोदयित्वा । पक्षे मन्दरगिरिणा विलोड्य । कम् ? आगमदुग्धाब्धि द्वादशाङ्गश्रुतक्षी. रसमुद्रम् । अत्रोचुत्त्येत्यनेन साधनमवबोधयति, समग्रद्रव्यागमावगाहनप्रभवभावागमसंपूर्णीकरणलक्षणत्वात् तत्वज्ञानोद्धरणस्य । पीत्वेत्यनेन च निस्तरणमवगमयति तत्वज्ञानपरिणत्यनन्तरभाविनोऽमरभावस्य तच्छब्दाः भिधेयत्वात् ।
मनसोत्यन्तचञ्चलत्वमनूद्य तन्निग्रहेण स्वाध्यायप्रणिधानादतिदुर्धरस्थापि संयमस्य सुवहत्वं निरूपयितुं श्लोकत्रयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org