________________
१९८
अ नागारधर्मामृते
तद्वानात्मपरिणामः प्रमत्तः । तस्य योगः संबन्धस्तस्मात् । रागाद्यावेशादित्यर्थः । प्राणा इन्द्रियादयो दश । तदुक्तम्
पंचवि इंदियपाणा मणवचिकायेसु तिण्णि बलपाणा।
आणप्पाणप्पाणा आउगपाणेण हुंति दह पाणा ॥ ते च चित्सामान्यानुविधायिपुद्गलपरिणामो द्रव्यप्राणाः । पुद्गलसामान्यानुविधायी चित्परिणामो भावप्राणाः । तदुभयभाजो जीवाः संसारिणस्त्रसाः स्थावराश्च । तत्र स्पर्शरसगन्धवर्णशब्दान् स्पर्शनरसनघ्राणचक्षुःश्रोत्रेषु क्रमेण द्वाभ्यां विभिश्चतुर्भिः पञ्चभिश्च पृथग्जानन्तो द्वीन्द्रियादयश्चतुर्धा नसाः । तद्विकल्पश्लोका यथा
जलूकाशुक्तिशम्बूकगण्डूपदकपर्दकाः। जठरकृमिशङ्खाद्या द्वीन्द्रिया देहिनो मताः॥ कुन्थुः पिपीलिका गुम्भी यूकामत्कुणवृश्चिकाः। मर्कोटकेन्द्रगोपाद्यास्त्रीन्द्रियाः सन्ति देहिनः ॥ पतङ्गा मशका दंशा मक्षिकाकीटगर्मुतः। पुत्रिकाचश्चरीकाद्याश्चतुरक्षाः शरीरिणः ॥ नारका मानवा देवास्तिर्यञ्चश्च चतुर्विधाः।
सामान्येन विशेषेण पञ्चाक्षा बहुधा स्थिताः॥ द्रव्येन्द्रियाकारा यथायवनालमसूरातिमुक्तकेन्द्वर्धसन्निभाः। श्रोत्राक्षिघ्राणजिह्वाः स्युः स्पर्शनेऽनेकधाकृतिः ॥ सक्षेत्रं यथाउववादमारणंतियजिणकवाडादिरहिय सेस तसा ।
तसनाडिबाहिरह्मि य णस्थित्ति जिणेहिँ णिदिडं ॥ स्पर्शनेनैकेन स्पर्श जानन्त एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतयः पञ्च स्थावराः । तेषां च बुद्धिपूर्वव्यापारादर्शनेप्यण्डान्तीनादित्रसवजीवत्वं निश्चीयेत। तदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org