________________
तृतीयोऽध्यायः ।
हिताहित विवेचनादव हितः प्रबोधोन्वहं, प्रवृत्तिविनिवृत्तिकृद्यदि न कर्णधारायते ॥ १६ ॥
}
किं नयति न प्रापयतीत्यर्थः । किंतत् ? तपः प्रवहणम् । तपः प्रवहणं यानपात्रमिव पारप्रापकत्वात् । कम् ? प्रभुं स्वामिनम् । तपःपक्षे मुमुक्षं । पोतपक्षे सांयात्रिकम् । किंतत् ? पदं स्थानम् । किंविशिष्टम् ? प्रेप्सितं प्राप्तुमिष्टम् । किंकुर्वत् ? चरत् प्रवर्तमानम् । क्व ? भवाब्धौ । किं विशिष्टे ? विपद्धति आपहुले । कथं कृत्त्वा ? सुरुग् बहुक्लेशम् । केन ? विभावमरुता रागाद्यावेश वायुना । यदि किम् ? यदि न कर्णधारायते कर्णधार इवात्मानमाचरति । कोसौ ? प्रबोधः सम्यग्ज्ञानम् । किंविशिष्टः ? प्रवृत्तिविनिवृत्तिकृत् । कस्मात् ? हिताहित विवेचनात् । इदं हितमिति प्रकाश्य हिते प्रवर्तयन् इदमहितमिति प्रकाश्या हितान्निवर्तयंश्चेत्यर्थः । किंविशिष्टः सन् ? अवहितोऽवधानपरः । अप्रमाद्यन्नित्यर्थः । कथम् ? अन्वहमनुदिनम् । कर्णधारो नाविकः प्रतरणकलाधिकृतो मरजीवा इति लोके ।
ज्ञानस्योद्योतनाथाराधनात्रयमाह -
ज्ञानावृत्त्युदयाभिमात्युपहितैः संदेह मोहभ्रमैः, स्वार्थभ्रंश परैर्वियोज्य परया प्रीत्या श्रुतश्रीप्रियाम् । प्राप्य स्वात्मनि यो लयं समयमप्यास्ते विकल्पातिगः, सद्यः सोस्तमलोच्चयश्चिरतपोमात्र श्रमैः काम्यते ॥ १७ ॥
१८१
काम्यते इष्यते । एष साधु चरतीत्यनुमोद्यते इत्यर्थः । कोसौ ? सः ज्ञानोद्योतनोद्यवन निर्वहणचणो मुमुक्षुः । कैः ? चिरतपोमात्रश्रमैः । चिरं बहुकाल तपोमात्रे ज्ञानाराधनारहितकायक्लेशाद्यनुष्टाने श्रमोऽभ्यासो येषां तैः । किंविशिष्टो यतः ? सद्यस्तत्क्षणेऽस्तमलोच्चयो निर्जीर्णाशुभकर्मसंघातः । उक्तं च
जं अण्णाणी कम्मं खवेइ भवसयसहस्सकोडीहिं । तं णाणी तिहि गुत्तो खवेद्द णिमिसद्धमित्तेण ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org