________________
१८०
अनगारधर्मामृते---
ज्ञानाराधनार्थमष्टधा विनयमाह
ग्रन्थार्थतवयैः पूर्ण सोपधानमनिहवम् ।
विनयं बहुमानं च तन्वन् काले श्रुतं श्रयेत् ॥ १४ ॥ श्रुतं श्रयेजिनागममभ्यस्येन्मुमुक्षुः। क ? काले यथाविहितसंध्याग्रहणादिविवर्जिते । किं कुर्वन् ? तन्वन् स्फीतीकुर्वन् । कम् ? विनयं माहात्म्योगवे यत्नम् तथा बहुमानं प्रभूतसत्कारपुरस्कारम् । कथं कृत्त्वा श्रुतं श्रयेत् ? पूर्ण समग्रम् । कैः ? ग्रन्थार्थतद्वयैः । ग्रन्थः संदर्भः । अर्थोऽभिधेयः । तद्वयं ग्रन्थार्थोभयम् । ग्रन्थश्वार्थश्च तवयं चेति विग्रहः । तथा सोपधानं यथाविहितनियमविशेषसहितम् । तथा अनिह्नवं गुर्वाधपह्नवरहितम् । सम्यक्त्वाराधनानन्तरं ज्ञानाराधने हेतुमाह
आराध्य दर्शनं ज्ञानमाराध्यं तत्फलत्वतः।
सहभावपि ते हेतुफले दीपप्रकाशवत् ॥ १५ ॥ दर्शनं सम्यक्त्वमाराध्य आराधनां कृत्वा ज्ञानं श्रुतज्ञानमाराध्यं भक्तव्यं मुमुक्षुभिः । कस्मात् ? तत्फलत्वतो ज्ञानस्य सम्यक्त्वकार्यत्वात् । ज्ञाने सम्यग्भावस्य सम्यक्त्वाधीनत्वात् । “णाणं सम्म खु होदि सदि जमि” इति वचनात् । ननु चामयोः सहभावित्वात् सव्येतरगोविषाणवत् कथं कार्यकारणभाव इत्यत्राह सहेत्यादि । भवतः । के ? ते दर्शनज्ञाने । किं विशिष्टे ? हेतुफले कारणकार्ये । क सति ? सहभावेपि युगपदुत्पादेपि सति । किंवत् ? दीपप्रकाशवत् प्रदीपतदालोको यथा । उक्तं च
कारणकार्यविधानं समकालं जायमानयोरपि हि ।
दीपप्रकाशयोरिव सम्यक्त्वज्ञानयोः सुघटम् ॥ तपसः समीहितार्थसाधकत्वं ज्ञानं विना न स्यादिति दर्शयति
विभावमरुता विपद्वति चरद् भवाब्धौ सुरुक, प्रभु नयति किं तपःप्रवहणं पदं प्रेप्सितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org